SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ 304 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य भावप्रकाशः वस्थया प्रागसत्तया तन्निवृत्तये कारकव्यापारसाफल्योक्तिरपि हेया । तन्मते अवस्थानां परस्पराभावरूपतया वर्तमानावस्थया प्रागसत्त्वमतीतावस्थारूपं तन्निवृत्तिश्च वर्तमानावस्थारूपैवेति तस्यास्सदा सत्त्वे कारकव्यापारवैफल्यस्यापरिहार्यत्वात् । एवं च योगवार्तिके तेनैव 'अतीतानागतावस्थावत्त्वखरूपमनित्यत्वं घटादावभिव्यक्तौ चेष्यत एव । आद्यन्तयोः कार्यस्यात्यन्तासत्त्वप्रतिषेधाय ध्वंसादिप्रतियोगित्वस्यैव प्रतिषेधात् । अतीतानागतावस्थयोः ध्वंसप्रागभावस्थलाभिषेकमात्र एवास्माकं विशेषादिति । एवं स्वीयसांख्यभाष्ये च विशेषप्रदर्शनमपि अभिव्यक्तेस्सर्वदा सत्त्वाङ्गीकारेऽकिञ्चित्करमेव । यद्यपि सिद्धान्तवत् सांख्यैरपि निरन्वयविनाशानङ्गीकारेण प्रागभावप्रध्वंसौ भावरूपावेव ; अथाऽपि धर्मांशेऽपि सत्कार्यवादिभ्यस्सांख्येभ्यः - धयंशमात्रे सत्कार्यवादिनां सिद्धान्तिनामयमेव विशेषः-धर्मितत्प्रागभावतन्नाशाः अत्यन्तविभिन्नरूपास्सिद्धान्ते । सांख्यमते तु वर्तमानावस्थाया अतीतावस्थाकालेऽपि शक्तयात्मनाऽवस्थानाङ्गीकारेण पूर्वापरधर्मिणामिव ताहशावस्थानामप्यभेदस्य स्वीकार्यतया अतीतावस्थारूपतया अभिन्नधर्मरूपास्ते धर्म्यभिन्ना वा इत्यादिसरणिरभ्युपेया । एवं च वर्तमानावस्थाभावरूपाया अतीतावस्थायाः प्रतियोगिभूतवर्तमानावस्थारूपत्वाङ्गीकार वर्तमानावस्थायास्तत्क्षणे धर्मरूपेण सत्त्वे च समानदेशकालत्वमभावप्रतियोगिनोः । सहते काप्यगत्यैव न तथाऽत्रान्यथा गतेः ॥ इति पूर्वोक्तदोषोऽपीति । एवमेतत्पक्षे अपि चाशेषनित्यत्वे पौर्वापर्यं न कुत्रचित् । इत्यादिना पूर्वोक्ता अपि दोषा अनुसन्धेयाः । धर्माणां धर्म्यभेदो निरस्त एवेति ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy