________________
सरः]जनेः व्याक्तिरूपत्वेऽपि सांख्यमते व्यक्तिपदार्थस्य दुर्वचत्वं नित्यत्वाद्यनुपपत्तिश्च303
सर्वार्थसिद्धिः 1* किश्च व्यक्तिरपि नित्या कार्या वा ? पूर्वत्र कारकाणामिव '* व्यञ्जकानामपि नैष्फल्यम् ।
आनन्ददायिनी असत उत्पत्तिपक्षे दूषणानां स्वव्यापकत्वाजातित्वमित्याह-किञ्चेति ।
भावप्रकाशः विद्यमानानां स्वलक्षणेन—स्वज्ञापिकया कारकव्यापारसामग्रया पूर्तिः-व्यवहारविशेषरूपफलोपयोगितेत्यर्थ । एतेन–सांख्यचन्द्रिकायां 'व्यवहारोपयोगितत्तत्कार्याभिव्यक्तेस्तत्तत्कार्यनिष्ठसत्त्वगुणरूपतया नित्यत्वेऽपि तमसा प्रतिबद्धत्वान्न व्यवहारोपयोगित्वं अभिव्यञ्जकसामग्रया तूत्तेजकेन मणेरिव तमसः प्रतिबन्धाब्यवहारक्षमत्वमिति सामग्रया उत्तेजकत्वमात्राङ्गीकारात् सत्कार्यवादबाधाभावः' इत्युक्तिरपास्ता । पूर्वमपि
न हि व्यक्तौ विशेषोऽस्ति नचावरणवारणम् ।
तयोरपि भवत्पक्षे नित्यत्वात्साध्यता कथम् ॥ इत्यारभ्य
इन्द्रियप्रतिघातेन भागर्भागान्तरावृतिः ।
यथाऽन्यत्र तथा नात्र कादाचित्कदशात्यजः ॥ इत्यन्तग्रन्थेनायमर्थः स्फुटीकृतः । ध्वंसप्रागभावौ अतीतानागतावस्थारूपो अभिव्यक्तिश्च वर्तमानावस्थैवेति निष्कर्षमपि दूषयति1* किश्चेत्यादिना । नित्या—कालत्रये सती ॥ 2 * व्यञ्जकानां-वर्तमानावस्थासम्पादकानां । उदाहृतयोगभाष्यादिषु लक्षणशब्दाभिधेयानामवस्थानां सदासत्त्वरूपनित्यत्वमङ्गीकृतम् । इत्थं च विज्ञानभिक्षुणा खोपज्ञसाङ्ख्यप्रवचनसूत्रभाष्ये अभिव्यक्तेर्वर्तमाना