________________
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
यदपि तदुपादेयत्वात्तदभिन्न इति एतदपि पूर्ववदेव । तदुपादेयत्वं च तज्जन्यत्वमात्रं वा तद्विकार्यत्वं वा तत्सम्बन्धित्वं वा तद्धर्मत्वं वा तदभिन्नत्वं वा अन्यद्वा यत्किश्चित् इति ? नाद्यः; निमित्तैरप्यभेदप्रसङ्गात् । न द्वितीयः तद्धर्मत्वहेतूक्तदोषादेव । उभयत्र पटावस्था तन्त्वात्मा न भवति तन्तुभ्यो भिन्नत्वात् घटवत् इति प्रतिप्रयोगस्य शक्यत्वाच्च । * इष्टोऽपि हि त्वयाऽपि
1
आनन्ददायिनी
298
[जडद्रव्य
तथाच असाधारणानैकान्तिकत्वमिति भावः । ' पटस्तन्तुभ्योऽभिन्नः तदुपादेयत्वात् यदुक्तसाध्यं न तदुक्तसाधनं न यथा घटः ' इत्यनुमानान्तरं दूषयति – यदपीति । अभेदस्तादात्म्यं । पूर्ववदेवेतिव्याप्यत्वासिद्ध्यादिदूषणदुष्टमित्यर्थः । दूषणान्तरं च वक्तुं विकल्पयति - तदुपादेयत्वमिति । तत्सम्बन्धित्वं वेति – संयोगसमवायान्यतरवत्त्वमित्यर्थः । निमित्तैरिति — तत्र व्यभिचार इति भावः । तद्धर्मत्वहेतूक्तेति दृष्टान्तासिद्ध्यादिदोषादेरित्यर्थः । उभयत्र — विकल्प द्वयेऽपि । हेत्वसिद्धिं परिहरति — इष्टोऽपीति । भवता कारणे सत्त्वं भावप्रकाशः
1
* इष्टोऽपि हीत्यादि —यथोक्तं तत्वकौमुद्याम् (९) स्वात्मनि क्रियानिरोधबुद्धिव्यपदेशार्थक्रियाव्यवस्थाभेदाश्च नैकान्तिकं भेदं साधयितु मर्हन्ति । एकस्मिन्नपि तत्तद्विशेषाविर्भावतिरोभावाभ्यामेतेषामविरोधात् ' इत्युपक्रम्य ' इह तन्तुषु पटः इति व्यपदेशोऽपि इह बने तिलका इत्युपपन्न इति' इति (१०) ' कार्याणामभेदेऽपि कथञ्चिद्भेदविवक्षयाऽऽश्रयाश्रयिभावः ! यथेह वने तिलका इत्युक्तः' इति च ।