________________
296
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्व्य
तत्वमुक्ताकलापः तनिमित्तादिनीतेः
सर्वार्थसिद्धिः स्वव्याघातं चाभिप्रेत्याह-तन्निमित्तेति । निमित्तादीनां कार्योत्पादनशक्तिरस्ति वा न वा? न चेत् । कथं तन्निमित्तत्वम् ? अन्येषां वा कथमतन्निमित्तत्वम् ? अस्ति चेत् ; सा किं कार्यस्य सूक्ष्मावस्था अन्या वा ? न पूर्वः? अपासिद्धान्तात् । उपादाने हि तत्सत्त्वमङ्गीकरोषि! अन्यथा प्रकृतरिवात्मनोऽपि प्रपञ्चगर्भत्वेन प्रकृतित्वप्रसङ्गात् । आत्मा खलु अयस्कान्तवनिर्व्यापारोऽपि सनिधिमात्रेण निमित्तमिष्यते । तथा सति निमित्तोपादानवैषम्यविलयाच्च । नाशकेषु च नाश्यवृत्तिरस्ति वा न वा? अस्ति चेत् ; वह्नौ तूलवद्विरोधः । नचेत् कथं तदेव तस्य नाशकम् ? न ह्यतद्वृत्तिस्तेन नाश्यते! शुक्तावविद्यमानस्य रूप्यस्य तया
आनन्ददायिनी कार्यगर्भत्वस्य । अन्येषां—कारणाद्भिन्नानामित्यर्थः । सिद्धान्तातिक्रमे त्वत्पक्षे शक्तिमत्त्वाविशेषादिदं निमित्तमेव नोपादानमिति व्यवस्था न स्यादिति दूषणे सत्येव दूषणान्तरं वक्तुं विकल्पयतिसा किमिति । दूषयति—अन्यथेति । आत्मनो निमित्तत्वं नास्तीत्यत आह-आत्मा खल्विति । किञ्च नाशकेषु नाश्यमस्ति नवेति विकल्पमुखेन प्रतिबन्धन्तरमाह-नाशकेष्विति । वह्नौ नाशके यथा तूलं विरुद्धं तथा नाशकान्तरेऽपि नाश्यं विरुद्धमित्यर्थः । कथं तदेवेति-वहिरेव तूलस्य नाशकः न जलामिति नियमः कथमित्यर्थः । परापादितातिप्रसङ्गमिहापि दर्शयति-न ह्यतद्वत्तीति । शुक्ताविति-अनिर्वचनीयरजतपक्षेऽपि अधिष्ठानतया रजतनाशनिमि