________________
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
' * अतः कारणाद्भिन्नत्वेन दृष्टं कार्य तेनाकारेण पूर्व नासीदिति त्वयैवाकामेनापि स्वीकर्तव्यम् । न हि घटाकारेण निष्पन्नस्य
आनन्ददायिनी
268
[ जडद्रव्य
अभावे सर्वेषां स्वखावस्थाविशिष्टानां प्राक्सत्वात् किंचिन्न कस्यचिद्विकृतिरित्यर्थः । न च यद्यतः कदाचिदभिव्यक्तं तद्विकृतिरिति विभागः ; अभिव्यक्तेः प्रकाशात्मकत्वे प्रकृतेरपि कदाचिच्छब्दादिभिः प्रकाशात्तद्विकृतित्वप्रसङ्गात् । आपरोक्ष्यविवक्षायां प्रकृत्यादि (त्यादीनां ) (प्रति) महदादि विकृतिर्न स्यात् । तस्या (तेषामा) परोक्ष्याभावात् । न च यद्यस्माद्विभज्यते सा तस्य प्रकृतिरिति विभागः ; विभागस्य प्राक्सत्त्वे असत्त्वे च (उक्तदोषात्) असाध्यत्वप्रसङ्गात् । न चाभिव्यक्तिरन्या ; तस्याः पराभिमतोत्पत्तेरन्यस्या दुर्वचतया आद्यक्षणसम्बन्धात्मिकायाः प्रागसत्त्वनियमादिति भावः । अवस्थायाः प्राक्सत्वे कारकव्यापारवैयर्थ्यमित्याह—नहीति । निष्पन्नस्य – सिद्धस्य निष्पाद्यत्वायोगात् ; अन्यथा घटस्योत्पन्नस्य सर्वदोत्पादप्रसङ्गादिति भावः । ननु न कारक -
भावप्रकाशः
नुमाने पर्यवसानं बोध्यम् । * अतः कारणाद्भिन्नत्वेनेत्यादि एतेन कार्यरत भूलस्य कारणान्नित्वेन कार्यस्य दर्शनादित्यर्थ इति सिद्धम् । इत्थं च अवस्थानां कारणव्यापारात्पूर्व सत्त्वसाधने प्रत्यक्षबाधो दोष उद्भावितो भवति । कारणाच्चास्य सतोऽभिव्यक्तिवशिष्यते ' सतश्चाभिव्यक्तिरुपपन्ना' इति वाचस्पत्युक्तिं दूषयति
;
-------