________________
सरः] त्रिगुणपरीक्षायां सत्कार्यवादहेतुनिरासे आकारान्तरेणासत एव कार्यत्वम् 267
तत्वमुक्ताकलापे
ः ।
सर्वार्थसिद्धिः
न स्वोचितात्कार्यदृष्टेः
पञ्चानामप्याभासत्वाभिप्रायेण प्रतिवक्ति नेति । तत्र प्रथमस्य प्रतिक्षेपे हेतुः कार्यदृष्टेरिति । शेषाणां तु स एव स्वोचितादिति विशेषितः । न तावत् कार्यमिति किमपि न दृष्टम् ! सर्वलोकवेदविरोधात् । व्यक्तिसाधनस्यापि निराश्रयत्वप्रसङ्गाच्च । न च दृष्टमपि न सत्यम् ! माध्यमिकादिमतानां निराकरिष्यमाणत्वात् । न च सत्यमपि न कारणाद्व्यतिरेकेण गृह्यते! उक्तोत्तरत्वात् । प्रकृतिविकृतीत्यादिविभागभङ्गप्रसङ्गाच्च । आनन्ददायिनी
सर्वकार्यसम्भवोऽस्तीति विपर्ययः । पञ्चानामिति - साधकानिष्टापादकरूपाणामनुमानतर्काणामित्यर्थः । विशिष्टस्य सर्वहेतुदूषणपरत्वे विशेषणवैयर्थ्यमाद्यहेतावित्यभिप्रायेणाह — तत्रेति । किञ्चिद्विशेषस्य किञ्चिद्विशेषं प्रति अन्वयव्यतिरेकवशात् कारणत्वोक्तौ नोक्तदूषणमिति शेषाणां दूषणमाह – शेषाणां त्विति । स्वोचितत्वं - कार्यानुकृतान्वयव्यतिरेकित्वम् । कार्यदृष्टेरित्येतदुपपादयति — न तावदिति । तथाच सत उत्पत्तिदर्शनाद्बाध इत्यर्थः । न चासत उत्पत्तौ शशशृङ्गस्याप्युत्पत्तिः । अन्वयव्यतिरेक सिद्धकारणाभावात् । निराश्रयत्वप्रसङ्गाच्चेतितथाच आश्रयासिद्धिरिति भावः । लोकविरोधपरिहारमाशङ्कते— न च दृष्टमपीति । परिहरति — माध्यमिकादिमतानामिति । बाघादर्शनेऽप्यसत्यत्वे सर्वत्राप्येवं प्रसङ्गेन माध्यमिकमतप्रसङ्गः ; स च निराकरिष्यत इत्यर्थः । उक्तोत्तरत्वादिति — पूर्वं घटो नासीदिदानीमासीदिति कारणाद्व्यतिरेकेण लोकदृष्टेरित्यर्थः । प्रकृतीति — असदवस्थाया