SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ 256 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य तत्वमुक्ताकलापः व्यवहृतिनियमस्सूत्रितस्तारतम्यात् देहादौ येन सर्वार्थसिद्धिः – विशेषव्यपदेशः १ इत्यत्राह व्यवहृतीति ! सूत्रितो ह्यसौ ! 'वैशेष्यात्तु तद्वादस्तद्वादः' इति व्यात्मकत्वात्तु भूयस्त्वात् ' इति च । अत्र प्रतिबन्दी प्रथयति - देहादाविति । येनेति तारतम्यपरामर्शः । तवाप्यनारब्धावयविकेषु विजातीयराशिषु भूयसा व्यवहारो लोकसिद्धस्संमन्तव्यः । विजातीयदारुशिला धारब्धेषु च खट्टागोपुरादिषु किञ्चिज्जातीयत्वनियमः । तत्रा - वयव्यनारम्भे सर्वत्रैवमस्मन्मतसिद्धिः । आनन्ददायिनी वादः । तथैव पाठ इत्येके । शाखान्तरे तथा पाठ इत्यपरे । वैशेष्यादित्यादि–एकभूतांशस्याधिक्यात्तद्भूतव्यवहार इत्यर्थः । द्विशक्तीरध्यायपरिसमाप्तिदोतिका । व्यात्मकत्वादिति -- त्रित्वमुपलक्षणम् ; पञ्चभूतात्मकस्यापि त्र्यात्मकत्वात् । कथमेकभूतव्यवहारः ? इति शङ्कायामेकांशस्य भूयस्त्वात्तद्व्यवहार इत्यर्थः । तारतम्यपरामर्श इति – तथाच मूलस्यायमर्थः -- भूतान्तरयुजि - पञ्चभूतानां देहारम्भात्पूर्वकाले संहतानां सत्त्वात् शरीरं पृथिव्यारब्धमेव कुतः अप्यं वा भवतु ? इति शङ्कायां पृथिव्यवयवानां बहुत्वात्तस्या एव शरीरारम्भकत्वमित्यादि किञ्चिद्वयवस्थापकं वक्तव्यम्; तदत्रापि समानमिति । आदिशब्दद्वयार्थमप्याहतवापीति । विजातयिराशिषु — अधिकैकजातीयमाषतिलादिराशिषु । अस्मन्मतसिद्धिरिति–तत्रातिरिक्तावयव्यभावेऽपि शब्दान्तरादिसर्वकार्यसिद्धौ सर्वत्रापि तथा शब्दान्तरादिसंभवात् अवयवी न स्यादित्यर्थः ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy