SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ सरः]त्रि-यां देहे नानाजातिसमावेशे बाधकाभावः पार्थिवत्वव्यपदेशानुपपत्तिशङ्काच 255 सर्वार्थसिद्धिः ज्जातीयमित्यपि प्रत्युक्तम् ; तन्त्वादिजातीयैः अतन्त्वादिजातीयोत्पत्त्यभ्युपगमाच्च । भवतु वा पृथिवीत्वतोयत्वादिजातीनामेकत्र समावेशः ! तथाऽपि का हानिः ? परस्परपरिहार्युपाधिद्वयसमावेशन्यायेन दर्शनादर्शनाभ्यामेव सर्वातिप्रसङ्गशान्तेः । ननु पाञ्चभौतिकेषु कथमेकभृतशब्दः तत्तदर्थक्रियानियमश्च ? वर्णितो हि भवद्भिरेव भूतान्तरोपसृष्टेष्वपि देहादिषु पार्थिवाप्यादिविभागः । कथं मन्त्रार्थवादेषु 'पृथिवी शरीरम्' इत्यादिआनन्ददायिनी तर्हि क्लृप्तानन्तर्भावाद्द्रव्यान्तरतापत्तिरित्यत्राह-- कल्प्यते चेति । क्लृप्तानन्तर्भावे रूपन्यायादतिरिक्तत्वमिति भावः । द्रव्येष्वयं नियम इत्याहतन्त्वादीति । ननु जातिसंकराङ्गीकारे गवां क्षीरं पातव्यं नोष्ट्रादेरिति शास्त्रार्थनियमो न स्यात् ; गव्यप्युष्टत्वजातिसम्भवादित्यत्राह - परस्परेति । यथा स्वादुत्वरसवत्त्वकाश्यादिदेशप्रभवत्वादिरूपोपाधिसाङ्कर्येऽपि गोपयस्त्वोष्ट्रपयस्त्वादेः साङ्कर्याभावात् शास्त्रार्थनियमः ; यथा गृहस्थत्वयतित्वादेरेककाले न साङ्कर्यं यथा वा शूद्रान्नत्वब्राह्मणान्नत्वादेरसाङ्कर्यं दर्शनबलादङ्गीकार्यम् ; तथाऽत्रापि यथादर्शनं व्यवस्थासंभवान्न दोष इत्यर्थः । ननु शरीरस्य पाञ्चभौतिकत्वे कथं पार्थिवत्वव्यपदेशः ? इत्याशङ्कयाह–नन्वित्यादिना । तत्तदर्थक्रियानियमः --- पार्थिवत्वप्रयुक्तगुरुत्वकाठिन्यादिहेतुकक्रियैव । न तु सेचनदहनादिक्रियाः । वर्णितो हीति — अस्थित्वगादिकं पार्थिवं रुधिरादिकमाप्यमित्यादिविभाग इत्यर्थः। मन्त्रार्थवादेष्विति—– निरूढपश्वङ्गहोमकरणमन्त्रार्थवादे इत्यर्थः । तत्र यद्यपि ; 'पृथिव्यै शरीरम्' इति पाठो दृश्यते ; तथाऽपि अन्तरिक्षमात्मा ' इत्यादिसाहचर्यात् विभक्तिव्यत्ययेनार्थतोऽनु
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy