SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ सर:] त्रिगुणपरीक्षायां देहादेः पञ्चभूतोपादानकत्वम् 253 तत्वमुक्ताकलापः संघातो नैकभूतैरपि भवति यथा ह्येकभूतस्य सर्वार्थसिद्धिः 4 या चान्या कल्पना – शरीरादिषु पृथिव्याद्यनेकभूतसद्भावेऽप्येकमेव भूतमुपादनम् ; अन्यत् संसर्गिमात्रम्' इति तामपि निरस्यति - संघात इति । अवयविसद्भावे हि एकप्रकृतित्वं नियन्तव्यं न वा त्वया ? संघातवादे तु यथादर्शनं सर्वमुपादानम् । नच विजातीयानां संहतिर्नास्ति ! दृष्टविरोधात युष्मत्सिद्धान्तविरोधाच्च, अन्यथा कथं तैजसत्वाभिमते काञ्चनादौ गुरुत्वादिक्लृप्तिः ? किंच त्रिवृत्करणं नामरूपव्याकरणार्थम् | 'चतुविधाहारमयं शरीरम्' इति च गर्भोपनिषत् । ' पञ्चभूतात्मकं आनन्ददायिनी प्रसङ्गसंगतिमाह – या चान्या कल्पनेति । अनेकप्रकृतित्वेऽपि बाधकाभावस्य उत्तरत्र वक्ष्यमाणत्वादिति भावः । संघातवादेत्विति - अत्रानेकप्रकृतिकत्वमेकप्रकृतिकत्वमिति विचारस्यैवानुत्थानमित्यर्थः । दृष्टविरोधादिति - नीरक्षीरादिसंहतिदर्शनादित्यर्थः । दृष्टिविरोधादिति कचित्पाठः । सिद्धान्तविरोधमेवोपपादयति — अन्यथेति । उपष्टम्भकपार्थिवांशगुरुत्वं स्वर्णे प्रतीयते इति युष्मत्क्लप्तिः । आदिशब्देन रूपादिर्गृह्यते । निगमाद्युक्तिभिश्चेत्यस्यार्थमाह-- किंचेति । ननु त्रिवृत्करणश्रुतिर्न देहस्य पाञ्चभौतिकत्वं वदतीत्यत्राह — त्रिवृत्करणमिति । रूपवत्त्वाच्छरीरस्येति भावः । साक्षाद्विवक्षितार्थप्रतिपादिकां श्रुतिमाहचतुर्विधाहारमयमिति । यद्यपि पेयं लेह्यं चोष्यं खाद्यमिति चतुर्विधा -
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy