________________
252
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्गव्य
तत्वमुक्ताकलापः दन्तिदावानलाद्यैः क्षोणीयं क्षुद्यमाना क्षणमपि चरमामण्ववस्थां न जद्यात् ॥ २२ ॥
सर्वार्थसिद्धिः प्रत्यक्षरूपश्च । यद्वा—अन्यरूपेणालोच्यते; यथाऽऽहोदयनः'दृश्यमेव ह्यालोकरूपमारोप्य पिञ्जरस्त्रसरेणुरालोच्यते' इति । उत्तरावयविनां तु अनियतसंख्यैरारम्भः। भावरूपस्य सर्वस्य समवाय्यसमवायिनिमित्तसापेक्षत्वेऽपि प्रध्वंसस्तु निमित्तमात्रजन्यः' इत्यादि । एतादृशं कल्पनाजातं न विद्यावृद्धा बहुमन्यन्ते । तथाच सूत्रम्—'अपरिग्रहाच्चात्यन्तमनपेक्षा' इति ॥
इति त्रिगुणपरीक्षायां सद्रव्यवादसाधनम्.
आनन्ददायिनी रूपस्यैव प्रत्यक्षत्वात् त्रसरेणुरूपमप्रत्यक्षमिति पक्षमवलम्ब्याह—यद्वेति। आलोच्यते इति-पीतश्शङ्ख इतिवत् चक्षुषा गृह्य(दृश्य)ते इत्यर्थः । पिञ्जरः-पीतरूपः । विद्यावृद्धाः----पाराशर्यादयः । पाराशर्यवचनमुदाहरति-अपरिग्रहादिति । महद्भिः सांख्यपक्षः क्वचित्त्यक्तोऽपि प्रायेण परिगृह्यते काणादपक्षस्त्वत्यन्तं त्यज्यते इत्यर्थः । यद्यपि ' म्रश्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम् '_' इति लक्षणात् प्रथयति परिमि' इत्यत्र यतिभङ्गः ; तथाऽपि ---
स्वरसन्ध्याप्तसौन्दर्ये यतिभङ्गो न दोषभाक् । इति वृत्तरत्नाकरव्याख्यानोक्तेरदोष इति ध्येयम् । एवमुत्तरत्राऽपि समाधेयम् ॥ २२ ॥