SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे सर्वार्थसिद्धिः पटपतिस्समीक्ष्येत क्रमादाधिक्यशालिनी || प्राक्सिद्धानां पटादीनामुत्तरोत्तरजन्मनि । अहेतुको विनाशश्च स्थिरपक्षे न युज्यते ॥ न चेत्; उपलम्भविरुद्धनाशसन्ततिकल्पनाप्रसङ्गः । * एवमेकद्वित्रयादितन्त्वपकर्षणदशायामपि खण्डपरम्परोत्पत्तिनाशपरपराक्लप्तिः क्लिष्टतरा । लाघवशालिनि संघातमात्रपक्षे राशिन्यायान्नासौ दोषः । ननु गौरव भयादवयविपरिहारे सौगतवत् स्वरूपविशेषमालम्ब्य तन्त्वादीनां संयोगोऽपि त्यज्यता - आनन्ददायिनी 228 [जडद्रव्य लिङ् । ननु पूर्वपूर्वेषां द्वितन्तुकानां त्रितन्तुककाले नाशात् पटपङ्कयनुपलम्भो न दोष इत्याशङ्कयाह — प्राक्सिद्धानामिति । स्थिरपक्षे इतितथा च बौद्धपक्षपरिग्रहप्रसङ्ग इति भावः । द्वितीयं दूषयतिन चेदिति । न युज्यते इत्येतन्न चेदित्यर्थः – युज्यते चेदिति यावत् । तथा च नाशसन्ततिरनुपलम्भबाधितेति भावः । केचित्तु - प्राक्सिद्धानामित्यारभ्य न युज्यते इत्यन्तं पूर्वशेषतथा व्याख्याय; द्वितीयं दूषयीतन चेदितीत्याहुः । एवमिति — अनुपलम्भबाधितेऽपीत्यर्थः । कल्पनीयेति शेषः । लाघवशालिनीति - अतिरिक्तद्रव्याभावेन लाघवादिमतीत्यर्थः । -- भावप्रकाशः 1 * एवमित्यादि — यथाऽऽह किरणावल्यामुदयनः- -" कथं तर्हि चरमादितन्त्वपकर्षणेऽल्पतरतमादिपटोपलम्भ इति चेत्; प्रतिबन्धकविगमेऽवस्थितसंयोगेभ्यः खण्डपटोत्पत्तेः आद्यादितन्त्वपकर्षणे त्वया - प्येषैव रीतिरनुसर्तव्या । अन्यथा द्वितन्तुकादिपटपर्यन्तसमस्त कार्यविनाशे
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy