SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ सरः] त्रिगुणपरीक्षायां सद्व्यवादसाधने अवयविनो वृत्त्याद्यनुपपत्तिः 227 सर्वार्थसिद्धिः अवयवेषु वृत्त्यनुपपत्तिर्वाः यदि प्रत्यवयवमविभागेनावयवी वर्तते तदैकावयवदर्शनेऽप्यवयव्युपलभ्येत जातिरिव प्रत्याधारम् । अथ विभज्य ; अवयवातिरिक्तांशभेदेना (त्व) नवस्थापातः । बलवत्प्रमाणोपनीतेऽर्थे संप्रतिपन्नवत् वृत्तयनुपपत्तिर्विलीयत इति चेन्न; प्रमाणबलस्यात्र निरस्तत्वात् । आदिशब्देनोत्पत्तिनाशानुपपत्तिस्संगृह्यते । तथा हि-पृथुतरपटनिर्माणप्रक्रमे द्वितन्तुकादिपटपतिरुत्पद्यते न वा? न चेत् ; बुद्धिशब्दान्तरादिरवस्थाभेदादेवेति सिद्धं स्यात् । उत्पद्यते चेत् ; त्रितन्तुकाद्यारम्भदशायां पूर्वपूर्व तिष्ठति न वा? पूर्वत्र तदनारम्भः; आरब्धकार्यैस्तदानीमवयव्यन्तरानारम्भात् । न च द्वितन्तुकादिस्तन्त्वन्तरसहितस्वितन्तुकाद्यारम्भक इति युक्तम् । इह तन्तुषु पटः इत्यादिस्वाभिमतव्यवहारविरोधात् । पूर्वसिद्धपटैस्सार्धं तन्तुभिः पटसंभवे । आनन्ददायिनी विकल्पमभिप्रेत्य आद्यं दूषयति—यदि प्रत्यवयवमिति । द्वितीयं दूषयति—अथेति । वि(अवि)भागस्त्ववयवमादायैव । पूर्वावयववृत्त्यर्थमव - यवान्तरस्वीकारे तस्मिन्नप्यवयवसंबन्धस्य वक्तव्यतया तत्राप्युक्तविकल्पेनावयवान्तराङ्गीकारे अनवस्थेति भावः । संप्रतिपन्नवदिति-संयोगादिवदित्यर्थः । आरब्धकार्यैरिति-तथा सति कार्योत्पत्तरविरामप्रसङ्गादिति भावः । नचेति-द्वितन्तुकपटादेस्तन्त्वन्तरस्य चानारब्धकार्यत्वादिति भावः । इहेति-इह पटः तन्तौ च पट इति व्यवहारप्रसङ्गादिति भावः । द्वितन्तुकपटादिभिः पटान्तरोत्पत्त्यङ्गकिारे उपलम्भविरोधोऽपीत्याह-पूर्वसिद्धेति । समीक्ष्येतेति-न दृश्यत इत्यर्थः । क्रियातिपत्तौ 15*
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy