________________
सर:] त्रिगुणपरीक्षायां सद्द्रव्यवादसाधने कार्य सोपादानातिरेके दोषः 225
तत्वमुक्ताकलापः नो चेशांशिनोस्स्यात्प्रतिहतिः उभयोः स्पर्शवत्त्वाविशेषात् ॥ २० ॥
सर्वार्थसिद्धिः
नो चेदिति । अंशांशिनोः — अवयवावयविनोरित्यर्थः । उक्तप्रसङ्गे तदभिमतमेव हेतुमाह – उभयोरिति । द्वयोर्द्रव्ययोरन्यतरस्य वा स्पर्शहीनत्वे मिथः प्रतिरोधो नास्ति ; इह तु न तथेत्यभिप्रायेणाभयारित्युक्तम् । अवयवावयविनोरेकत्र वृत्तिर्ना - स्तीति चेत्; समवायिदेशैक्याभावेऽपि संयोगिदेशैक्य मङ्गीकरोषि ; तत्र कथं तन्त्ववष्टब्धन प्रदेशे पटसंयोगः ? माभूदिति चेत् मूर्तमूर्तसंयोगविलोपप्रसङ्गः; मेरुमन्दरादीनाआनन्ददायिनी
1
त्यारभ्य पत्रताटङ्कादिस्थलपरिहाराशङ्कापूर्वकं नो चेदित्यस्यावतारिकाग्रन्थः । नन्ववयवस्य स्वावयववृत्तित्वं अवयविनोऽवयववृत्तित्वमिति नैकत्र वृत्तित्वमिति शङ्कते - अवयवावयविनोरिति । संयोगिदेशैक्यमितिएकत्र नभस्स्थलेऽवयवावयविनोस्संयोगसंबन्धवृत्तिरिति भावः । मूर्तमूर्तेति – यद्यपि कार्यानारम्भकाले परमाण्वाकाशसंयोगे न विरोधः तथाऽपि घटादीनां मूर्तीनाममूर्तेस्संयोगं ब्रवीषि संयोगजसंयोगं स न स्यादिति भावः । यदि स्पर्शवतोस्सप्रतिघत्वविरोधो न स्यात्तत्राह - मेरुमन्दरेति । ननु सप्रतिघत्वाविरोधे नीरक्षीरयोरेकनमः प्रदेश वृत्तिः
;
-
भावप्रकाशः
* अङ्गीकरोपीति' द्रव्याणामेकत्र समवायेन समानदेशतां व्यासेधामो न तु संयोगेन' इत्याद्युदाहृतवाचस्पतिवाक्ये व्यक्तमेतत् ॥
SARVARTHA.
15