________________
224 सव्याख्यसर्वार्थसिद्धिसाहततत्वमुक्ताकलाप [जडद्रव्य
- सर्वार्थसिद्धिः सफलश्वावस्थान्तरेण कारकव्यापारः। न ह्यत्रावयव्यन्तरोत्पत्तिः, आकुश्चनप्रसारणपद्मसंकोचविकासादिष्वपि तत्कल्पनाप्रसङ्गात् । *नचैकेनावयवेनावयव्यारम्भः; असमवायिकारणासंभवात् । अवयवावयवसंयोगस्तत्रासमवायिकारणामति चेन्न ; तस्यान्यार्थत्वात् । अन्यथा अंशूनां तन्तुवत् पटाश्रयत्वमपि स्यात् । न च तद्युक्तम् आरब्धकार्यैरवयवैस्तदैवावयव्यन्तरारम्भानभ्युपगमात्। तत्र हि सप्रतिघत्वविरोधाद्विभेषि । एवं संप्रतिपन्नावस्थाभेदमात्रानादरेण द्रव्यान्तरकल्पनेऽपि तमेव विरोधं प्रसन्जयति
. आनन्ददायिनी व्यभिचारस्थलान्तरमप्याह -आकुञ्चनेति । असमवायिकारणेति - अन्यथा द्वणुकमेकस्मादेव परमाणोरुत्पद्यतेति भावः । अवयवावयवेतिअवयवस्य चेदवयवास्तेषां संयोग इत्यर्थः । अन्यार्थत्वादिति-अवयवजनकत्वेन पटरूपवदन्यथासिद्धत्वादित्यर्थः । अन्यथेति-कार्यद्रव्यस्यासमवायिसामानाधिकरण्यनियमादिति भावः । आरब्धारितिद्रव्यासमवायिकारणाश्रयस्य समवायिकारणत्वनियमादवयवावयवानां आरब्धावयव्यात्मकावयवतया तत्काल एवावयव्यन्तरजनकत्वं न संभवतीत्यर्थः । अनभ्युपगमे हेतुमाह-तत्रेति । यद्वा-नचैकावयवे
भावप्रकाशः कायुदाहरणं स्यात्' इत्यवयवावयव्यभेदवादिशङ्कामुपाक्षप्य यहूषणं तत्सिद्धान्तेऽलमकमिति बोधितम् ॥
* नचैकेत्यादि । उक्तं च किरणावल्यामुदयनेन–'तत्रैकमनारम्भकमवयवसंयोगानुपपत्तावसमवायिकारणाभावात्' इति ॥