________________
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ता
सर्वार्थसिद्धिः
;
तथा च त्वयाऽनभ्युपगमात् अयुक्तेश्च । कार्यगुरुत्वादेव ह्यणुगुरुत्वं कल्पयसि । जातस्य च न स्वभावतः पतनहेतुत्वाभावः । प्रतिबन्धात्कार्यानतिरेक इति चेत् किमयं प्रतिबन्धोऽवयविगुरुत्वस्य, उतावयवगुरुत्वस्य ? नाद्यः ; परमाणुगुरुत्वस्यैव पतन - हेतुत्वप्रसङ्गात् । तथा सति गुरुत्वात्पतनं द्रवत्वात्स्यन्दनमिति तत्तत्क्रियावभिष्ठ गुरुत्वादिकल्पनाभङ्गापाताच्च । अतोऽत्र वरमवयविनि गुरुत्वानुत्पत्तिकल्पनम् । तत्र चोक्तो दोषः । न द्वितीय: ; * कदाचिन्निष्कम्पेऽवयविनि शाखाफलहस्तादिल
3
218
[ जडद्रव्य
आनन्ददायिनी
मवयवित्वादिति भावः । इष्टापत्तिं निरस्यति - तथाचेति । अयुक्तिमेवाह—कार्यगुरुत्वादेवेति । जातस्य चेति — कार्ये उत्पन्नस्य गुरुत्वस्येत्यर्थः । परमाणुगुरुत्वस्यैवेति द्वयणुकादिगुरुत्वानामवयविगुरुत्वत्वादिति भावः । इष्टापत्तिं निरस्यति - तथा सतीति । ततो वरमिति - गुरुत्वकार्याभावादिति भावः । इष्टापत्तौ बाधकमाह-तत्र चोक्तो दोष इति ।
भावप्रकाशः
1
* किमयं प्रतिबन्ध इत्यादिना ॥
** गुरुत्वदिकल्पनाभङ्गत्यादि — स्वाश्रयसमवेतद्रव्यत्वसंबन्धेना वयवगुरुत्वस्य कार्यद्रव्यपतनं प्रति हेतुत्वाङ्गीकारेण न्यायवार्तिकोक्तरूपादिपतनापत्तिशङ्काया अनुन्मेषादिति भावः ॥
अवयव गुरुत्वप्रतिबन्धपक्षे न्यायवार्तिकोक्तदूषणद्वयं न लगतीत्यभिप्रेत्य पृथग्दूषयति
3
कदाचिदित्यादि ॥