________________
सरः
त्रिगुणपरीक्षायां सद्व्यवादसाधने नैयायिकमतानुवादः
215
सर्वार्थसिद्धिः 1* तदिह प्रत्यक्षागमबलादेकस्यैव कार्यद्रव्यस्यावस्थाभेदादुपादानोपादेयभाव इति स्थिते द्रव्यान्तरं प्रागसदागन्तुकं
आनन्ददायिनी सार्वत्रिकत्वाव्यवस्था न स्यादिति भावः । तदिहेति-मृदयं कुम्भः तन्तवः पट इति प्रत्यक्षं, सदेवेत्याद्यागमः । कार्यद्रव्यस्येति-तस्मिन्नपि
भावप्रकाशः कथञ्चिदपि पक्षण संबध्यते' इत्यादिना दूषितम् ; तथाऽपि प्रत्यक्षागमाभ्यां उपादानोपादेययोरभेदसाधने कार्योपादानभेदे गुरुत्वान्तरकार्यप्रसङ्गः इति विपक्षे बाधकतर्कविधया गुरुत्वान्तरकार्याग्रहणस्यावयवावयव्यभेदस्थापकत्वे प्राचामाशयमाविष्कुर्वन् मूलमवतारयति । तदिहेत्यादिना । अत्र न्यायवार्तिकं 'समहीनाधिकप्रसङ्ग इति चेत् -- यदि तावत्कारणगुरुत्वैस्समं कार्यगुरुत्वं ; यावद्द्विपलाभ्यामसंबद्धेऽवनमनं द्विस्तावत्संबद्धे सति स्यात् । अथ कारणगुरुत्वाधिक कार्यगुरुत्वं तथाऽप्यधिकं प्रसज्येत ; अथ कारणगुरुत्वाद्धीनं कार्यगुरुत्वं ; तथाऽपि विशेषो गृह्येत । न त्विदमास्ति । तस्मान्न कार्यगुरुत्वमस्ति । न । कार्यकारणगुरुत्वेयत्तानवधारणात्-यद्येतदवधारितं स्यात् एतावत्कारणगुरुत्वमेतावत्कार्यगुरुत्वमिति तदैतद्युज्यते वक्तुं समाधिकहीनकार्यप्रसङ्ग इति। तत्त्वनवधारितमियत्कारणे गुरुत्वमियत्कार्ये गुरुत्वमिति । यदि न कार्यकारणगुरुत्वमनवधारितं योऽयं प्रत्ययस्तुलयोन्मीयमाने द्रव्ये द्विपलं पञ्चपलमिति न प्राप्नोति । न न प्रामोति । द्रव्यसमाहारगुरुत्वावधारणात् । यदिदं भवता मन्यते द्विपलं पञ्चपलमिति ; नात्र कार्यकारणगुरुत्वे अवधार्यते ; किन्तु आचरमादाच परमाणोश्च द्रव्यसमाहार उन्मीयते। तत्र मनुष्यधर्मणो न युक्तं वक्तं