SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 214 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य सर्वार्थसिद्धिः * आविर्भावतिरोभावजन्मनाशविकल्पवत् । नित्यं जगदिति स्मृत्या '* व्यवस्थाद्वयमीरितम् । आनन्ददायिनी भवत्वित्याह-आविर्भावेति । व्यवस्थाद्वयं- आविर्भावः जन्मति व्यवस्थाद्वयमित्यर्थः । तथाच सर्वत्र विसृष्टयाद्यङ्गीकारे आविर्भावस्यैव भावप्रकाशः 1* आविर्भावेत्यादि-इदमुत्तरार्धम् ; तदेतदक्षयं नित्यं जगन्मुनिवराखिलम् । (विष्णुपुराणे १-२२-६०) इति पूर्वार्धम् । अत्र विष्णुचित्तार्याः अनन्तस्य न तस्यान्तस्संख्यानं वा (चा)पि विद्यते । इति जीवानामसंख्येयत्वं वक्ष्यति । अतः प्रतिसर्गमन्यूनं ; . . . . . नित्यं तत्कार्यतः पृथक् ॥ अव्युच्छिन्नास्ततस्त्वेते सर्गस्थित्यन्तसंयमाः ।। इति वचनात् प्रवाहरूपेण च नित्यम् । आविर्भावतिरोभावौ-संकोचविकासौ । तावेव जन्मनाशौ इति व्याचख्युः । जन्मनाशावेव विकल्प इति वा ताभ्यां विकल्प इति वा ; असत्त्वादिकं न विकल्प इति भावः । * व्यवस्थाद्वयं-नित्यत्वव्यवस्थैका जन्मनाशव्यवस्था चापरा ॥ ____ 'नान्योऽवयव्यवयवेभ्यो गुरुत्वान्तरकार्याग्रहणात् ' इति न्यायवार्तिकम् । अत्र तात्पर्यटीका-'अवयवगुरुत्वाद्गुरुत्वान्तरमवयविनः ; तस्य यत्कार्यमवनतिविशेषः तस्याग्रहणादित्यर्थः' इति । अत्र यद्यपि गुरुत्वान्तरकार्याग्रहणस्यानुमानविधयाऽवयवावयव्यभेदसाधकता न संभवति अपक्षधर्मत्वादित्यभिप्रेत्य न्यायवार्तिके 'गुरुत्वान्तरकार्याग्रहणादित्येतन्न
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy