________________
सरः]
त्रिगुणपरीक्षायां परमाणुकारणवादभङ्गः
201
सर्वार्थसिद्धिः
संबन्धव्यवस्थेति निरस्तं । तत्प्रदेशभेदस्यैव मृग्यमाणत्वात् । विभुद्रव्यमेव तत्तन्मूर्ततुल्यपरिमाणं जायत इति चेन्न ; विरोधादुक्तदोषानतिक्रमाच्च । काल्पनिकांशभेदेन मूर्तसंयोग इति चेत्तर्हि वस्तुतस्त्वखण्डेनेत्युक्तं स्यात् । अंशभेदकल्पना च किं विभुद्रव्यस्वरूपमात्रे उत तदंश एवेति दुस्तरो गर्तः । निरंशानामपि स्वभावत एव विभूनामनेकमूर्तसंयोगक्षमत्वमिति चेदणूनामप्येतदस्तु ; अविशेषात् । * एवं त्रसरेणुप्रतिबन्दिश्च भाव्येति । अत्रोच्यते – यदि वयं प्रदेशवर्तिगुणनिह्नवाय प्रव आनन्ददायिनी
स्य प्रदेशेषु । तत्प्रदेशभेदस्यैवेति —— उपाधिसमपरिमाणविभुप्रदेशस्यैवासिद्धेरित्यर्थः । विरोधादिति — विभुनः कार्यत्वाभावात्तथात्वे विभुत्वव्याघातादित्यर्थः । उक्तदोषेति -- तत्तुल्यपरिमाणमप्यंशभेदेन जायते उत न ? उपाधिना विच्छिन्नं न तत्तुल्यपरिमाणं जायते अविच्छिन्नं वा? इत्यादि दोषानतिक्रमादित्यर्थः । तहति—कल्पानिकांशस्य वस्तुनः पारमार्थिकवस्तुनिर्वाहकत्वाभावादित्यर्थः । कल्पनापेक्षेऽप्युक्तदोषानिस्तार इत्याह — अंशभेदेति । सिद्धान्ते त्रसरेणूनां निरंशत्वात्तत्संयोगप्रतिबन्दिमप्याह - एवमिति । प्रदेशवर्तीति — प्रदेश
भावप्रकाशः
1 * एवं त्रसरेणुप्रतिबन्दिश्च भाव्येत्यनेन 'संयोगस्तत्यारभ्य सोऽपि न स्वांशाभ्यां वर्तते ' इति पूर्वप्रन्थार्थ आक्षिप्तः ।
2 * अत्रोच्यत इत्यादि — अत्र न्यायसिद्धाने षट्केनेत्याद्युक्तदूषणं माध्यमिकैरेवोद्भावनीयं नान्यैरित्ययमर्थ उपपादितः । अत एव -