SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे सर्वार्थसिद्धिः कात्स्नर्थेन विभ्रुद्रव्यमेकेन स्पर्शवता संयुज्यते कथं स्पर्शवदन्तरेण तस्य संयोगस्स्यात् ? अंशतश्चेत्; सावयवत्वप्रसङ्गः न हि विभुद्रव्यस्यावयवित्वं सङ्घातत्वं वा सुवचं; पूर्वत्र स्पर्शवत्त्ववृत्तत्वकार्यत्वानित्यत्वादिप्रसङ्गात् । उत्तरत्र नानात्वभेदाभेदयोरन्यतरापातात् । तत्र च विभुद्रव्यांशानां मिथस्संयोगोऽस्ति न वा ? अस्ति चेत्; तत्रापि स एव प्रसङ्गः । नास्ति चेत्; असंहतरूपता स्यात् । औपाधिको विभ्रनामंशभेद इति चेन्न ; उपाधिसंयोगेऽप्यंशादिविकल्पानपायात् । निरंशेऽपि संयुज्यमानं स्वरूपेण तद्भेदोपाधिरिति चेन्न ; स भेद उपाधिना छिन्ने चेदवयवविश्लेषात्मा स्यात् । अच्छिन्ने तु भेदाभेदवाद एव शरणं । अत एव स्वसमानपरिमाणेषु विभुप्रदेशेषु तत्तदुपाधि 200 [जडद्रव्य आनन्ददायिनी कर्मसत्वेऽपि विभुषु संयोगो नोत्पद्यते तदा तत्र व्यभिचारादन्यतरकर्म न संयोगकारणमिति कुत्रापि ततस्संयोगो न स्यादित्यर्थः । कथमिति——–सप्रतिघत्वविरोधादित्यर्थः । इष्टापत्तिं निराचष्टे – न (हि) च विभुद्रव्यस्येति । अवयवित्वावयवसङ्घातत्वे मतभेदेन । उत्तरत्रेति — नानात्वाङ्गीकारे एकस्यैव सङ्घातत्वार्थं भेदाङ्गीकारे भेदाभेदप्रसङ्ग इत्यर्थः । अंशभेदमङ्गीकृत्याह तत्र चेति । विभुद्रव्यस्यांशवत्त्व इत्यर्थः । स एवेति – स्वांशभेदेन संयुज्यते न वेत्यादिप्रसन्न इत्यर्थः । असंहतरूपता स्यादिति-- एकं वस्तु विभुद्रव्यं न स्यादित्यर्थः । अच्छिन्ने—अखण्डिते । भेदाभेदेति अखण्डितस्याभिन्नत्वादिति भावः । स्वसमान परिमाणेषु — उपाधिसमपरिमाणेषु । विभुप्रदेशेषु-- विभुद्रव्य -
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy