________________
सरः]
त्रिगुणपरीक्षायां परमाणुकारणवादभङ्गः
197
सर्वार्थसिद्धिः सा चैकाप्यनेकविषया दृष्टा इष्टा च । निरंशा च सा प्रत्येक कास्नर्थेनांशतो वा विषयीकुर्यात् ? नाद्यः ; अन्यानुल्लेखप्रसङ्गात् । न द्वितीयः ; निरंशत्वादेव । तत्र चेत्कश्चित्समाधिः
आनन्ददायिनी प्रतिबन्दीमुपपादयति–निरंशा चेति । अन्येति-एकविषय एव कृत्स्न
भावप्रकाशः यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता ।
भावः स्वतन्त्रो नास्तीति सिंहनादस्तवातुलः ॥ इति । एवं
यः प्रत्ययैर्जायति स ह्यजातो
न तस्य उत्पादः स्वभावतोऽस्ति । यः प्रत्ययाधीनस्स शून्य उक्तः
यश्शून्यतां जानति सोऽप्रमत्तः ॥ .. ... .. इति च । अङ्गीकृतश्च ज्ञानार्थयोः विषयविषयिभावस्सांवृतोऽत्रैव
दृश्यते स्पृश्यते चापि स्वप्नमायोपमात्मना ।
चित्तेन सह जातत्वाद्वेदना तेन नेक्ष्यते ॥ इति । अत्र पञ्चिका–स्यादेतत् ; यदि वेदको न स्यात् वेदना च नास्ति केनायं तर्हि सुखसाधनत्वादिना भावेषु दृष्टादिव्यवहारः प्रवर्तते ? इत्यत्राह-दृश्यते इत्यादि । दृश्यतें चक्षुरिन्द्रियजेन । स्पृश्यते कायेन्द्रियजातेन। चित्तेन ज्ञानेन । एवं तर्हि चित्तमेव वेदकं वस्तुसदस्तीति चेदाह-स्वप्नमायोपमात्मना । स्वप्नोपमस्वभावेन मायोपमस्वभावेन च प्रतीत्यसमुत्पन्नेन चित्तेन । न तु परमार्थसता । कथं चित्ताब्यतिरिक्त चित्तेन दृश्यते ? सहजातत्वात्-चित्तेन सहोत्पन्नत्वात् । चित्तेन