________________
196
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलाप
जडद्रव्य
भावप्रकाशः विकल्पस्स्वयमेवायमविद्यारूपतां गतः ।। इति । अविद्या च संवृतिः इति नैव काचिद्बुद्धिः पारमार्थिकरूपमाहिणी परमार्थतो युज्यते । अन्यथा सांवृतबुद्धिग्राह्यतया परमार्थरूपतैव तस्य हीयेत । परमार्थस्य वस्तुतः सांवृतज्ञानाविषयत्वात् । तत्र चेदमुक्तं भगवता आर्यसत्यद्वयावतारे---
यदि हि देवपुत्र परमार्थतः परमार्थसत्यं कायवाङ्मनसां विषयतामुपगच्छेत् न तत्परमार्थसत्यमिति संख्यां गच्छेत् । संवृतिसत्यमेव तद्भवेत् । अपि तु देवपुत्र परमार्थसत्यं सर्वव्यवहारसमतिक्रान्तं निर्विशेषं असमुत्पन्नमनिरुद्धं अभिधेयाभिधानज्ञेयज्ञानविगतं । यावत्सर्वाकारवरोपेतसर्वज्ञज्ञानविषयभावसमतिक्रान्तं परमार्थसत्यमिति विस्तरः इति च ।
न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतः ।
उत्पन्ना जातु विद्यन्ते भावाः वचन केचन ॥ इति
निस्स्वभावा अमी भावास्तत्वतस्स्वपरोदिताः । एकानेकस्वभावेन वियोगात्प्रतिबिम्बवत् ।
इति
यदन्यसंनिधानेन दृष्टं न तदभावतः । .. प्रतिबिम्बसमे तस्मिन् कृत्रिमे सत्यता कथम् ॥ इति च । न रूपशून्यतया रूपं शून्यं रूपमेव शून्यं शून्यतैव रूपम् । न वेदनाशून्यतया वेदना शून्या वेदनैव शून्या शून्यतैव वेदना । न संज्ञाशून्यतया संज्ञा शून्या संज्ञैव शून्या शून्यतैव संज्ञा । न संस्कारशून्यतया संस्काराश्शून्याः संस्कारा एव शून्याः शून्यतैव संस्काराः । न विज्ञानशून्यतया विज्ञानं शून्यं विज्ञानमेव शून्यं शून्यतैव विज्ञानमिति विस्तरः । उक्तं च