SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ सरः] त्रिगुणपरीक्षायां तोयतेजसोः परस्परहेतुताप्रमाणगतिव्यवस्था 157 तत्वमुक्ताकलापः अद्योऽग्निस्तेजसस्ता इति न हि वचसोर्बाधितुं युक्तमेकं निर्वाहः कल्पभेदाद्यदि न दृढमिता सर्वार्थसिद्धिः प्रमाणविप्रतिपत्तिं शमयति-- अद्भयोऽग्निरिति। 'अबाधेन गतिमत्त्वे श्रुतिविरोधप्रतीतावपि स्मृतिस्तद्वदवाध्येति भावः । गत्यन्तरं निवारयति-निर्वाह इति। आनन्ददायिनी अबाधेन गतिमत्त्व इति । तद्वदिति-श्रुतिवदित्यर्थः । तदुक्तं परस्परविरुद्धत्वं श्रुतीनां न भवेद्यदि । स्मृतेः श्रुतिविरुद्धायास्ततो मूलान्तरं भवेत् ।। इति । यथा श्रुत्योविरोधे निर्वाहस्तथा विरुद्धाया अपि स्मृतेरिति भावः। भावप्रकाशः *'अबाधेन गति मत्त्वे इति । तदुक्तं तन्त्रवार्तिके विरोधाधिकरणे कुमारिलेन वेदो हीदृश एवायं पुरुषैर्यः प्रकाश्यते । स पठद्भिः प्रकाश्येत स्मराद्भिर्वेति तुल्यभाक् ॥ इत्यारभ्य-- बाधिता च स्मृतिर्भूत्वा काचिन्नयायविदा यदा । श्रूयते न चिरादेव शाखान्तरगता श्रुतिः ॥ तदा का ते मुखच्छाया स्यान्नैयायिकमानिनः । बाधाबाधानवस्थानं ध्रुवमेव प्रसज्यते ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy