________________
156
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
तत्वमुक्ताकलापः मुदयप्रक्रियातारतम्यात तन्मात्राभूतभेदः कललदधिनयात्कल्पितस्तत्वविद्भिः ॥ १२ ॥
सर्वार्थसिद्धिः इह शब्दादयः। तेषां समुदय उत्पत्तिः। तत्प्रक्रियातारतम्यं सूक्ष्मस्थूलस्वभावतयैव । तच्च शास्त्रगम्यं । कललशब्दोऽत्र दुग्धदधिमध्यावस्थविषयः। तत्र हि निवृत्तभूयिष्ठमाधुर्यमीषदाम्लत्वमुपलभ्यते तथा स्यात् ॥१२॥ त्रिगुणपरीक्षायां तन्मात्रभूतयोरुत्पत्तिः श्रुतिस्मृतिविप्रति
__पत्तिनिरासश्च. एवं तन्मात्रभूतसृष्टिप्रकार उक्तः। तत्र तोयतेजसोस्स्सृष्टौ
आनन्ददायिनी कललदधिनयादित्यत्र नाडीमुष्ट्योश्चेति ज्ञापकादुपपत्तिरिति भावः॥१२॥ त्रिगुणपरीक्षायां तन्मात्रभूतयोरुत्पत्तिः श्रुतिस्मृतिविप्रतिपत्तिानरासश्च.
सृष्टौ श्रुतिस्मृति (विप्रतिपत्तिः) विरोधः पूर्वश्लोके परि(हृता)हृतः अत्र स एव परिदियत इति पौनरुक्तयं वारयन् पूर्वसङ्गतत्वान्न पृथक् संगतिरित्याह-एवं तन्मात्रेति । तोयतेजसोरिति । 'अमेराप' इति श्रुत्या तेजसस्सकाशादपामुत्पत्तिरुच्यते । ___अबावृतमिदं सर्वमद्भयोऽग्निरुदपद्यत । इति स्मृत्या अद्भयस्तेजसस्सृष्टिः प्रतिपाद्यत इति श्रुतिस्मृत्योर्विप्रतिपत्तिः। न च श्रुत्या स्मृतिबाधः अबाधेनापि सम्भवे बाधस्यान्याय्यत्वादित्याह
भावप्रकाशः न्याय्यकल्पनैकदेशत्वात्' (९-३-१५) इति जैमिनिसूत्रे चैतदर्थोऽवसेयः॥