SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ माना: xxi चार्वाकीया वादाश्च यद्यपि विशकालततया तत्रतत्रोपलभ्य न वादोपायाभ्युपगमः । पूर्वं नैव स्वभावतः । खपुप्पादिपदशक्तिग्रहवत् आकाशादिपदानां भ्रान्तिसिद्धे शक्ति ग्रहः । एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । समुदयमात्रमिदं कलेवरम् । ऋणं कृत्वा घृतं पिब । गच्छतामिह मार्गेषु व्यर्थ पाथेयकल्पनम् । नास्ति राजातिरिक्त ईश्वरः । घटपटादिकं न नित्यं नापि तुच्छं किं तु सादि निर्हेतुकजन्म च । आकाशस्त्वावरणाभावः स च निस्स्वभावः तुच्छतयैवेोपलम्भात् । तस्माद्दृष्टपरित्यागाद्यददृष्टप्रवर्तनम् । तद्धि लोकस्य मूढत्वं चार्वाकाः प्रतिपेदिरे || इत्यादिरूपाः न कथंचन परलोकिनमात्मानं सूचयन्ति ॥ छान्दोग्ये च आत्मजिज्ञासयोपगतयोरिन्द्रविरोचनयो: 'सुवसनौ साध्वलङ्कृतौ उदशरावेऽवेक्षेथां स आत्मेति' प्राथमिकोपदेशमात्र तृप्तस्य विरोचनस्य ‘ आत्मानमेवेह महयन्नात्मानं परिचरन् उभौ लोकावाप्रतिमं चामुं च ' इत्यसुरान् प्रत्युपदेशवाक्ये अतिरिक्तात्मनिषेध एव निगम्यते ; यद्यपि च न्यायमञ्जर्याम् — सुशिक्षितास्तु चार्वाका आहुः - ' यावच्छरीरमेकं प्रमातृतत्वं अनुसंधानादिसमर्थमस्तु न तु शरीरादूर्ध्वं तत् - यावज्जीवं सुखं जीवेत् नास्ति मृत्योरगोचरः । भस्मीभूतस्य देहस्य पुनरागमनं कुतः ? ॥
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy