SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ 124 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य सर्वार्थसिद्धिः अन्यथा व्यक्ताव्यक्तसाधारणधर्माणां तदुभयकारणत्वप्रसङ्गात् । तथा च तत्वाधिक्यप्रसङ्गः। एतेन '*विगीतं स्वानुगतकारणकं कार्यत्वात् घटशरावादिवदित्यपि निरस्तं। घटादिष्वनुगतस्य मृत्त्वस्य तत्कारणत्वासिद्धेः। मृव्यस्य तु घटाद्यात्मना आनन्ददायिनी सर्वस्यापि कारणत्वमस्त्वित्यत्राह--अन्यथेति । 'त्रिगुणमविवेकि विषयः' इत्यादिना त्वया प्रतिपादितानां त्रिगुणत्वादीनामित्यर्थः । इष्टाप(त्या)त्तिं परिहरति--तथाचेति । त्रिगुणापेक्षयापि कारणं तत्वान्तरं स्यादित्यर्थः । इदमुपलक्षणं--प्रकृतेरपि विकृतित्वं स्यादिति 'प्रकृति विकृतयस्सप्त' इत्युक्तं विरुध्येतेत्यपि ध्येयं । ननु कार्यस्य स्वानुगतकारणकत्वमानं साध्यं न तु तदनुगतानां यावतां तत्कारणत्वं । तथा च शौक्लयादिषु न व्यभिचार इत्यत्राह-एतेनेति । एतेनेत्युक्तमेवाह-घटादिष्विति । तथा च व्यापयत्वासिद्धिरिति भावः । भावप्रकाशः चितमनुमानाकारमाह-विगीतमित्यादिना । 'हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम्' ॥ (१०) इत्यत्र अनेकेषां महदादीनामेकस्याव्यक्तस्य लिङ्गत्वं स्फुटम् । 'भेदानां परिमाणात् समन्वयात् शक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥ (१५) कारणमस्त्यव्यक्तम्' इत्यस्य वैश्वरूप्यस्य-नानारूपस्य कार्यस्य
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy