________________
120
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः श्रुतेः। कामादीनां मनस्सामानाधिकरण्यं आयुघृतम् इति * वद्भाक्तं । महतश्च त्वया मिथो मनस्येव विरुद्धभावाष्टकसुखदुःखाद्याश्रयत्व* स्वीकारात् । बाह्यन्द्रियमनोहंकाराणामालोचनादिवृत्तिभेदाश्रयणमप्ययुक्तं ।
आनन्ददायिनी वृत्तिभेदस्याश्रयभेदकत्वे व्यभिचारमप्याह—कामस्सङ्कल्पइति । आयुघृतमितिवदति- कारणे कार्योपचारः । ननु विरुद्धवृत्ति (बुद्धिवृत्तिः)? राश्रयभेदिकेत्यत्राह–महतश्चेति । भावाष्टकं धर्माधर्मज्ञानाज्ञान वैराग्यावैराग्यैश्वर्यानैश्वर्याणि । तेषां बुद्धिधर्मत्वं 'धर्मोज्ञानं विरागऐश्वर्यम्' । इत्यादिना निरूपितं । अत्र वाचस्पतिना व्याख्यातं—धर्मोनाम योगादिजनितोऽष्टाङ्गयोगाभ्यासजनितश्चाभ्युदयनिश्रेयसहेतुभूतो गुणविशेषः । ज्ञानं-तत्त्वज्ञानं विरागोनाम 'दृष्टानुश्रविकविषय वितृष्णस्य वशीकारसंज्ञा वैराग्यमिति' वशीकाराख्यं । ऐश्वर्यअणिमादिप्रादुर्भावः । एवं चत्वारस्साविका (काख्याता) बुद्धिधर्माः । तामसास्तु तद्विपरीता अधर्माज्ञानावैराग्यानैश्वर्याख्याश्चत्वारः । तथा. चाष्टविधा अन्योन्यविरुद्धा भावा बुद्धिनामकमहत्तत्वधर्मा इति । वृत्तिभेदेन बाह्येन्द्रियमनोहङ्काराणाम्मह(त्तत्वाद्भेद) तस्तत्वान्तराद्भेदकल्पनं च न स्यादित्याह-बाह्येन्द्रियेति । आलोचनं-सम्मुग्धा
भावप्रकाशः त्वादिति भावः । * भाक्तमिति । एतच्च (१३-६) गीताभाष्यतात्पर्यचन्द्रिकायां व्यवस्थापितम् ।
2* स्वीकारादिति—एतच्च वृत्तिभेदाश्रयणमप्ययुक्तमित्यत्रहतुः ।