________________
94
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्यं
सर्वार्थसिद्धिः न्यायानुग्रहमात्रेण बलाबलदृष्टया विरोधशान्तेः । कोचत्तु प्रकृत्यादिशब्दै' *रदृष्टादिकं कथ्यत इत्याहुः । यथाहोदयनः"इत्येषा सहकारिशक्तिरसमा माया दुरुनीतितो मूलत्वाप्रकृतिः। * इत्यादि।
___ आनन्ददायिनी यबलादुभयोरविरोधस्यैव स्थि(र)तत्वात् । चतुर्धातुवाक्यं चतुर्णा स्वरूपप्रतिपादनमात्रेणापि प्रामाण्यमश्नुते । न तदर्थमितरनिषेधमपेक्षते । चतुर्विंशतिवाक्यं तु न्यूनपरं चेन्न प्रामाण्यं लभते इति न विरोध इति भावः । ननु चतुर्विंशतिवाक्यस्य चतुर्विंशतितत्वपरत्वं नावश्यं वाच्यं ; अन्यथाऽपि प्रामाण्योपपत्तेरिति नैयायिकमतमनुभाषतेकोचित्त्वित्यादिना । प्रथमादिपदेन महदहङ्कारादिशब्दग्रहणं । द्वितीयादिपदेन बुद्धिविशेषचेतनगुणौ गृह्यते । कुसुमाञ्जलिसमतिमाहयथाऽऽहेति । सहकारिशक्तिः सर्वकार्यसहकारिकारणं, अदृष्टमित्यर्थः । दुरवबोधत्वान्मायाशब्दवाच्यतापीत्याह – दुरुन्नीतितः । तस्य प्रकृतिशब्दवाच्यताऽपि युक्तेत्याह - मूलत्वात्प्रकृतिरिति ।
__भावप्रकाशः ___.'अदृष्टादिकमिति-अदृष्टबुद्धिविशेषाहमाभिमानाः प्रकृतिमहदहङ्कारशब्दार्थाः । तन्मात्राणि च सूक्ष्मभूतान्येव । कर्मेन्द्रियाण तु तत्तदधिष्ठानान्येवेति ।
2* ' इत्यादीतिप्रबोधभयतोऽविद्येति यस्योदिता। देवोऽसौ विरतप्रपञ्चरचनाकल्लोलकोलाहल: साक्षात्साक्षितया मनस्यभिरतिं बध्नातु शान्तो मम ॥