________________
सरः
त्रिगुणपरीक्षायां लोकायतनिरासः
93
सर्वार्थसिद्धिः भूतार्थप्रतिसन्धाताऽप्यभ्युपगन्तव्यः । अस्तु तर्हि'* षड्धातुवादः *अध्वर्युभिस्तथाध्ययनात् इति चेत् *तर्युगाभिश्चतुर्णामध्ययनाच्चतुर्धातुवादः स्यात् । अनुक्तमविरुद्धमन्यतो ग्राह्यमिति चेत्समानं भूयसां च प्राबल्यात् । * उपबृंहणप्राचुर्याच्च । न चात्र मिथो विरोधान्निरर्थकार्थवादमात्रता। सम्य
आनन्ददायिनी तत्रानुभूतार्थप्रातसन्धानं-स्तन्यपानादीष्टसाधनतास्मृतिः । अभिन्नभवे - बाल्ये अनुभूतस्य प्रतिसंन्धानं–तत्स्मृतिः । षड्धातुवादः-षट्तत्ववादः । अध्वर्युभिरिति-" तस्माद्वा एतस्मादात्मन आकाशस्संभूतः” इत्यादिना यजुर्वेदेऽध्ययनादित्यर्थः । उद्गातृभिरिति-" सदेव सौम्येदमग्र आसत्तित्तेजोऽसृजत ता आप ऐक्षन्त ता अन्नमसृजन्त" इत्यादिवाक्यरित्यर्थः । ननु विभागेनोद्देशेनेतरव्यवच्छदाद्विरोध इत्यत्राह-भूयसां चेति । भूयसां—चतुर्विंशतितत्वप्रतिपादकानामिति शेषः । विरोधाङ्गीकारेऽपि न तत्प्रतिबन्धीति भावः । भूयस्त्वमसिद्धमित्यत्राह-उपबृंहणप्राचुर्यादिति । तथाच अनुग्राहकप्राचुर्यमपि प्राबल्यप्रयोजकमविशेषादिति भावः । ननु भूयस्त्वमप्रयोजकं; शतमप्यन्धानां न पश्यतीति न्यायादित्यत्राह-नचात्रेति । सम्यङ्न्या
भावप्रकाशः '* षड्धातुवादः-आत्मपञ्चभूतरूपषट्पदार्थवादः। *अध्वर्युभिः- यर्जुर्वेदिभिः। *उद्गातृभिः-सामवेदिभिः। ** भूयसां अतिरिक्तप्रदिपादकानां मैत्रायणीयसुबालमहोपनिषदादीनां । .
___* उपबृंहणेति । विष्णुपुराणभारताद्युपबृंहणवचनान्याचार्यैः न्यायसिद्धाञ्जनादावुदाहृतानि ।