SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 74 सठ्याख्यसर्वार्थासद्धिसहिततत्वमुक्ताकलापे जडद्रव्य सर्वार्थसिद्धिः विरोधः । स्वोत्पादकत्वादाविव पौर्वापर्यादिवैघव्याभावात्। किंच स्वलक्षणादीनां जात्यादीनां च संवृतिसिद्धानां निर्धर्मकत्वेऽपि कथञ्चिदभिलापार्हत्वं त्वयापि ग्राह्य ; अन्यथा तत्तसंव्यवहारेण कथादिप्रवृत्त्ययोगात् । अतो निर्धर्मकं शब्दवाच्यं न भवति इति स्वसिद्धान्तविरोधः स्ववचनव्याघातश्च । आस्तामेतत्--'* समानाधिकरणस्येव व्यधिकरणस्यापि ___ आनन्ददायिनी स्वस्य स्वजनकत्वमपि स्यादित्यत्राह—स्वोत्पादकत्वादाविति । तत्र हि सत्त्वासत्त्वयोर्विरोध इति भावः । ननु धर्मे स्वपरनिर्वाहकत्वमसिद्धमित्यत्राह—किं चेति । ननु कल्पितधर्ममादाय धर्मे व्यवहार इत्यत्राह-जात्यादीनामिति । तत्रापि धर्मकल्पनेन व्यवहारेऽनवस्था स्यादिति भावः । अतो निर्धर्मकमिति । कल्पितधर्ममादाय शब्दवाच्यत्वे शुक्तयादरपि रजतादिशब्दवाच्यत्वप्रसङ्गे लोकव्यवहारविरोधाव्यवस्था न स्यादिति स्वरूपेणापि वाच्यत्वं स्वलक्षणं वाच्यमिति सिद्धान्तविरोधोऽपीति भावः । स्ववचनेति । निर्धर्मकं शब्दवाच्यं न भवतीति निर्धर्मकशब्दवाच्यत्वेन तदवाच्यत्वप्रतिपादनात् स्ववचनव्याघात इत्यर्थः । ननु प्रतिबन्दीमात्रमनुत्तरमित्यत्राह—आस्तामिति । भावप्रकाशः धर्मी विशेष इति मूलं विवृणोति-1* समानाधिकरणस्येत्यादिना । एतेन 'ननु विशेषा हि निर्विशेषाः तत्कथं निर्विशेषवस्तुनोऽप्रामाणिकत्वं ? उच्यते---धर्मेण धर्मी सविशेषः धर्मिणा च धर्मस्सविशेषः । कस्य चिद्धमभूतं धमि वा यन्न भवति तत् प्रामाण्यशून्यमिति हि ग्रन्थार्थः ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy