SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ सरः] · द्रव्यातिरिक्तधर्माक्षेपपरिहारः . 73 सर्वार्थसिद्धिः त्वयापि हेतुसाध्यादीनां पक्षधर्मत्वादिधर्मास्स्वीकार्याः। अनवस्था च कथश्चिदुपशमनीया। स्वीकृतं च संवेदनसंवेदने शब्दशब्दादौ स्वपरनिर्वाहकत्वं । * न चात्र कर्मकर्तृ आनन्ददायिनी त्वयापीति । स्वपरनिर्वाहकत्वं त्वयापि क्वचित्स्वीकार्यमित्याहस्वीकृतं चेति । संवेदनसंवेदनं-ज्ञानमात्रविषयकं ज्ञानं । आदिशब्देन सर्वमित्यादिशब्द उक्तः । देवदत्त आत्मानं पश्यतीत्यादौ कर्मकर्तृभावदर्शनान्न विरोध इत्याह-न चात्रेति । ननु तर्हि भावप्रकाशः सामान्यं तर्हि तद्रहितेषु रूपरसादिषु कथं निर्वाहः? तव वा कथं उपलक्षणरहितेषु ? लक्षणमेवोपलक्षणमिति चेत् ; किं तत् ? प्रतीति. रिति चेन्न ; आत्माश्रयप्रसङ्गात्, अस्माकं तु तदेवकीकरणमिति नोपद्रवः' इति ॥ शुक्लरूपाद्यवगाहिनो ज्ञानस्य स्वयंप्रकाशतया विषये प्रकारतया भानेन शुक्लरूपाद्यवगाहिसर्वप्रतीतिषु तस्येतरव्यावर्तकता । एवं कालस्यापीतरव्यावर्तकत्वं बोध्यम् । तदुक्तं व्यासायैः (जिज्ञासाधिकरणे)-- ‘ननु कथं सर्वप्रमाणानां सविशेषविषयत्वं? नहि गन्धादिग्राहि प्रमाणं गन्धादिकं साश्रयमावेदयति ; नैवं; आश्रय एव विशेष इति नियमाभावात् । संविदोऽपि सर्वविशेषणतया सर्वार्थवैशिष्टयं ह्युपपद्यते । अयं गन्धोऽनुभूयते इति कालादिविशेषाव च्छिन्नतयैव गन्धादिप्रतीतेश्च सविशेषत्वोपपत्तिः । इति । I* नचाबेति। अत्र- रूपादेः ज्ञानप्रकारत्वे ज्ञानधर्मित्वे च ॥ भवति पुनस्तस्य
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy