________________
सरः]
द्रव्यातिरिक्तधर्माक्षेपपरिहारः
सर्वार्थसिद्धिः
पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रिधैव सः । अविनाभावनियमाद्धेत्वाभासाः ततः परे ।।
333
भावप्रकाशः
63
आनन्ददायिनी
हेतु बिन्द्वाख्यग्रन्थे । पक्षधर्म इत्यादि पक्षधर्मः साध्याश्रयस्य पक्षस्य पर्वतादेः धर्मः 1 तन्निष्ठो धूमादिरिति यावत् । तदंशेन - पक्षांशेन तस्य पक्षस्यांशेन --विशेषणेन साध्येन व्याप्तः । त्रिविधेन – कार्यस्वभावानुपलब्धिभेदेन । अविनाभावस्य नियमात्
उपलब्धिलक्षणप्राप्तिरुपलम्भप्रत्ययान्तरसाकल्यं स्वभावविशेषश्च । यः स्वभावः सत्स्वन्येषुपलम्भप्रत्ययेषु यत्प्रत्यक्ष एव भवति स स्वभावः । स्वभावः स्वसत्तामात्रभाविनि साध्यधर्महेतुः । यथा वृक्षोऽयं शिशपात्वादिति। कार्यं यथाऽग्निरत्र धूमादिति । अत्र द्वौ वस्तुसाधनौ । एकः प्रतिषेधहेतुः इति । अत्र हेतुविन्दौ तदंशेन व्याप्त इत्यनेन ' सपक्ष एव सत्वं असपक्षे चासत्त्वमेव निश्चितं ' इति न्यायबिन्दूक्तं रूपद्वयं संगृहीतं । बाधः परं प्रत्येकं न दोषः व्यभिचारासिद्धयोरन्यतरेण गतार्थत्वात् । बाधस्थले पक्षान्तर्भावेन व्याप्तेरसंभवाच्च । एकत्र बाधाभावनिश्वयेऽपि पक्षतावच्छेदकाक्रान्तानेकव्यक्तिषु बाधाभावनिश्चयस्याशक्यत्वाच्च । अतोऽबाधितत्वासत्प्रतिपक्षितत्वे परित्यक्ते ।
1 * ततः पर इति--न्यायबिन्दौ – एवं त्रयाणां रूपाणामेकै: कस्य द्वयोर्द्वयोवा रूपयोरसिद्धौ सन्देहे च यथायोगमसिद्धविरुद्धानैकान्तिकास्त्रो हेत्वाभासा इत्युपसंहारे संक्षेपः ।