SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ सव्याख्यसर्वार्थासद्धिसहिततत्वमुक्ताकलापे जडद्रव्य सर्वार्थसिद्धिः शात्' इत्यादि *अनिरूढप्रायं स्यात् । ननु अनुमानं प्रमाणमिच्छन् न धर्मधर्मिभावं बाधितुमर्हति तस्य हेतुसाध्यधर्माश्रयावश्यं भावात् ; आह च धर्मकीर्तिः * हेतुबिन्दौ आनन्ददायिनी नमपसिद्धान्त इति शङ्कते नन्विति। हेतुर्भुमादिः साध्यं वयादिः त एवधर्मः तदाश्रयः पर्वतादिः पक्षः । धर्मकीर्तिः–बौद्धविशेषः । हेतुविन्दौ भावप्रकाशः _1* अनिरूढप्रायं स्यादिति-धर्मधर्मिणोर्मेंदासाधने स्वभिन्नधर्मशून्यत्वादेब्रह्मण्यङ्गीकारेऽपि ब्रह्म निर्धर्मकं निर्गुणं इत्येव पर्यवसानं स्यात् । तच्चोदाहृतसूत्रप्रणेतुळसस्यानभिमतं । “यदा पश्यः पश्यते रुक्मवर्ण कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति' इति ब्रह्मतद्विग्रहगुणानां मुक्तयुपायज्ञानविषयत्वबोधकाथर्वणश्रुत्यादिस्वारस्यविरुद्धं च । अतस्तत्साधनं दोषपरिहरणं चावश्यक मिति भावः । एतेन ' अथातो ब्रह्मजिज्ञासा' इत्यत्र धर्मविशिष्टस्यैव ब्रह्मणो जिज्ञास्यत्वं द्रव्याद्रव्यविभागस्य प्रयोजनं व्याससंमतिश्च सूच्यन्ते । ___2* हेतुबिन्दाविति—अत्र न्यायबिन्दौ धर्मकीर्तिवाक्यान्यनुसन्धेयानि--(सू ३०) 'त्रैरूप्यं पुनः लिङ्गस्यानुमेये सत्त्वमेव । सपक्ष एव सत्त्वं । असपक्षे चासत्त्वमेव निश्चितं । अनुमेयोऽत्र जिज्ञासितविशेषो धर्मी। साध्यधर्मसामान्येन समानोऽर्थस्सपक्षः । नसपक्षोऽसपक्षः । ततोऽन्यस्तद्विरुद्धस्तदभावश्चेति । त्रिरूपाणिच त्रीण्येव च लिङ्गानि अनुपलब्धिः स्वभावकार्ये च । तत्रानुपलब्धियथा-न प्रदेशविशेष क्वचिद्धटः उपलब्धिलक्षणप्राप्तस्यानुपलब्धोरति ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy