________________
सर:
द्रव्यसाधनम्
53
सर्वार्थसिद्धिः भेदोऽपि नापेक्ष्यः । पूर्वपूर्वबुद्धिशक्तिभेदादेव उत्तरोत्तरविचित्रभेदोपपत्तेः । ननु स्पर्शनेन्द्रियस्य अज्ञातैर्भागभेदैः करतलप्रकोष्ठादिवर्तिभिरेकस्यैव दुरालभास्पर्शस्योल्लेखभेदाभवन्तीति चेन ; स्पर्शस्यात्र भेदेनानुल्लेखात् । दुरालभावयवानां तु वह्निकणवत् शरीरमाविशतां तद्विकृतिजनकत्वमात्र । प्रदेशभेदेन विकृतितारतम्यं च वयादिभिरिव नानुपपन्नं । ननु मनुष्यपशुमृगादीन्द्रियभेदाद्भक्ष्यादिषु आनुकूल्यादिवैपरीत्यं तत्तारतम्यं च दृश्यते ; न च वस्त्वेवानुकूलप्रतिकूलस्वभावं ; विरोधात् । सर्वेषामविशेषेण सर्वदा उभयविधानुपलम्भात् ।
आनन्ददायिनी रूपा शक्तिर्वासनेत्यर्थः । न च दुरालभास्पर्शस्यैकत्वेऽपि स्पर्शनेन्द्रियप्रदेशभेदैः अज्ञातैरेव करतलप्रकोष्ठादिवृत्तिभिः अनेकधोल्लेखस्य सर्वैरङ्गीकारात्तन्नयायस्सर्वत्राप्यस्त्विति शङ्कते–नन्विति तत्राप्यकास्मन् स्पर्श ग्राहकप्रदेशभेदादनेकधोल्लेखोऽसिद्ध इति परिहरति । नेतिनन्वकस्मिन्ननेकधोल्लेखाभावे विकृतितारतम्यं कथमित्यत्राह–प्रदेशभेदेनेति—यथा वयवयवानामुष्णस्पर्शवतां तत्तत्प्रदेशभेदेन अल्पशो बहुशश्च प्रवेशेऽपि स्पर्श एकरूप एव गृह्यते ; स्पर्शवद्वह्वल्पव्यक्तिप्रवेशकृतमेव विकृतितारतम्यं ; तथा दुरालभावयवानां (प्रदेशभेदेन) प्रविष्टानामरूपत्वबहुत्वकृतमेव तारतम्यमित्यर्थः । नन्विन्द्रियादिभेदेन तृणादिवस्तुषु प्रतिकूलत्वमनुकूलत्वं च कल्प्यत इति सर्वसंमतं ; तद्वदत्रापि भवत्विति शङ्कते—नन्विति । ननु तत्र द्वयोरपि पारमार्थिकत्वमस्त्वित्यत्राह-नचेति । तथा च विनिगमकाभावादुभयं कल्पितमेवेति भावः ।