SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 52 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे सर्वार्थसिद्धिः [जडद्रव्य दधीरस्तु मण्डूकवसाक्तदृष्टेर्वशेषु उरगबुद्धिवदिति चेन्न । तत्तदोषशक्तया तत्तान्तिभेद सिद्धेः कल्प्याकारस्य क्वचित्संभवाच्च । चक्षुरदिस्वभावा एवात्रापि रूपादिभ्रान्तिहेतवो दोषा इति चेन्न ; सर्वकल्पनाधारे स्वलक्षणेऽपि अनाश्वासप्रसङ्गात् । ततश्च इन्द्रियस्वभावभेदोऽपि दुर्वचः ; अधिष्ठानाकाङ्क्षायामपि बुद्धचैव चरितार्थत्वात् । तथाच इन्द्रियस्वभावआनन्ददायिनी रोप्येरन् इत्यर्थः । द्वितीयं पक्षमाशङ्कते उपाधीति । तत्तद्दोषेति -- न चात्रेन्द्रियस्वरूपभेद तद्देोषव्यक्तीनां सिद्धिरिति भावः । ननु प्रती - तिवैजात्यं सिद्धं कारणादिवैजात्यं साधयतीत्यत्राह — कल्प्याकारस्येति । वैजात्यं विषयकृतमिति तद्भान्तिरन्यत्र तत्सिद्धिसापेक्षेति भावः । ननु चक्षुरादिस्वभावास्सिद्धाः । त एव दोषा अध्यास हे - तवः ! नचान्यत्राप्रसिद्धस्यारोपानुपपत्तिः; आरोप्यज्ञानस्याहेतुत्वात्, अन्यथा कदाचिदपि सर्पादर्शिनो मण्डूकवसाञ्जनाक्तनेत्रस्य वंशे सर्पश्रमाभावप्रसङ्गादिति शङ्कते चक्षुरादि स्वभावा एवेति । चक्षुरादीनामेव दोषत्वे स्वलक्षणस्यापि सिद्धिर्न स्यात् ; दोषजन्यतया निर्विकल्पस्यापि प्रामाण्याभावप्रसङ्गादिति परिहरात नेति । ततश्चेतिधर्मधर्मिणोरुभयोरपि कल्पितत्वप्रसङ्गात्तदुभयातिरिक्तपदार्थासंभवाच्च न पारमार्थिकत्वं ग्राहकरूपभेदस्य वक्तुं शक्यमित्यर्थः । ननु निरधि - ष्ठानभ्रमानुपपत्तयैव चक्षुरादीनां दोषत्वं प्रतिनियतमित्यत्राहअधिष्ठानेति–बुध्यैवेति-योगाचारवत्तत्तत्पदार्थविषयबुध्यैव तेते पदार्थाः कल्प्यन्तामित्यर्थः । (अधिष्ठानबुद्धिरेवाधिष्ठानमस्तु) कल्पनालाघवाच्च त्वत्पक्षादप्ययं पक्षो ज्यायानित्याह – तथाचेति । बुद्धिशक्तिः बुद्धि -
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy