________________
प्रमाणपरिभाषा
त्वेन द्विधा ॥१४॥ __ तदपि द्विविधमपि प्रोक्तं विधिप्रतिषेधाभ्यां साधनं द्विधा द्विभेदमित्यर्थः। विधिनिषेधसाधकत्वेनेति, विधिरूपसाध्यसाधकत्वेन निषेधरूपसाध्यसाधकत्वेन च । विधिस्वरूपं साधनं द्विविधं प्रतिषेधस्वरूपं साधनं च द्विविधं भवतीतिभावः ॥१४॥
तत्रापि विधिसाधकं विधिस्वरूपं साधनं पुनर्विभागतो व्याहरति
विधिसाधकं विधिरूपं व्याप्य-कार्यकारण-पूर्वो-त्तर-सहचरैः षोढा ॥१५॥
तत्र व्याप्यं यथा शब्दोऽनित्यः प्रयत्नानन्तरीयकत्वात् । कृतकत्वात् । श्रावणत्वाद् वा । ननु श्रावणत्वस्याऽसाधारणत्वात् कथं व्याप्तिसिद्धिरिति चेत् ?; विपर्यये बाधकप्रमाणवलादेवेति ब्रमः, कथमन्यथा सत्त्वहेतुस्तावकीनः क्षणिकत्वप्रसाधनप्रयुक्तस्तव धियां साधीयस्तां दधीत । यद्यपि व्याप्यो हेतुः सर्व एव भवति तथापि तद्व्याप्यत्वं नेह विवक्षयामास किन्तु साध्येन तदात्मीभूतस्याकार्यादिरूपस्य प्रयत्नानन्तरीयकत्वादेः स्वरूपमित्यदोषः वृक्षोऽयं शिशपात्वादित्यादेरप्यत्रैवान्तर्भावः खभावहेतुरप्ययमेव वेदितव्यः।
कार्य यथा- पर्वतोऽयमग्निमान् धृमादिति अत्र धूमो वह्नः कार्यभूतस्तदभावेऽनुपपद्यमानस्तं गमयति । कारणं यथा-वृष्टिभविष्यति विशिष्टमेघाऽन्यथानुपपत्तेः, अत्र मेघविशेषो वर्षस्य कारणं स्वकार्यभूतं वर्ष गमयति । ननु कार्याभावेऽपि सम्भवकारणं कथं कार्यगमकं स्यादिति चेत् । सत्यम् , न हि वयमपि यस्य कस्यचित् कारणस्य साधनभावमाचक्ष्महे किन्तु न यस्य मन्त्रादिना सामर्थ्यप्रतिबन्धो न वा कारणान्तरवैकल्यम् ।