________________
१९६
प्रमाणपरिभाषा -:
तन्न, अन्नादि भोगसम्भव सुखस्याऽपवर्गेऽभावात् तथाविधसुखस्य सुखत्वप्रतिभासेऽपि वस्तुतः क्लेशरूपत्वात् तथाविधसुखसच्चे च मुक्तेः संसारस्य चाविशेषापत्तेः । अतिप्रचुरवैषयिकानन्दस्य स्वर्ग एव सच्चात्, अखण्डस्वर्गीय - जीवननिरन्तरानुभूतैन्द्रियकसुखराशेः सिद्धस्यैकक्षणिकानन्दबिन्दुतः स्वल्पत्वात् । अपि च अन्नादिभोगो भोगिवर्गैः क्रियमाणः किंफल: १ बुभुक्षादिनिवृत्तिफलश्चेत्, साऽपि : किंफला ? स्वास्थ्यफला चेत्, सिद्धास्तार्ह निरुपमनिरतिशयानन्ताप्रतिपातिस्वास्थ्यभाजः, इति किमेतेषां वैषयिक :सुख सिद्धिकदाग्रहेण ? यथा हि कण्ड्सवे कण्डूयनं भवति मोदाय कण्डूकानाम्, नतु तदभावे, तथैव मोहिनामेव मोहनीयमहिम्ना विषय रमणं रोचते निर्महानां तु मोहनीयविरहेण कुतस्तदाभिमुख्यमपि । एतच्च मुक्तिसुखम् -- " संवेद्यं योगिनामेव परेषां श्रुतिगोचरम् । उपमाऽभावतो व्यक्तमभिधातुं न शक्यते ॥ १ ॥ " सुखादिगुणहीनां च मुक्तिं वदितारो मुक्तिस्वरूपं किं वक्ष्यन्ति ? केन रूपेण मुक्तानामवस्था भवित्री ! कश्च सुखादिहीनजीवनभसोः प्रतिविशेषः ? यथा हि नभो व्यापकम्, तथा जीवोsपि, तथा च ज्ञानादिरहितत्वात् जड़ं नभः, तथैव जीवोपि मुक्तावस्थायाम्, कथं च जीवस्वरूपं चैतन्यं सर्वथा समुच्छिन्नं भवितुमर्हति ? असाधारणरूपभङ्गे च धर्मिण एव भवति नाशः, चैतन्यात्मनो जीवस्य चैतन्यशून्यत्वे कुतः समव
?