________________
१७०
प्रमाणपरिभाषावेदितव्यः। देहधर्मत्वे च ज्ञानादीनां मृतदेहेपि तदुपलम्भ. प्रसङ्गः इत्युक्तमेव । न च लावण्यादिवदुपपत्तिः तेषां मृतदेहपि सत्त्वात् । इतरथा तस्य तन्मात्राहेतुकत्वेन चैतन्यवदेवा. तिरिक्तहत्वपक्षणेऽनायासादात्मसिद्धेः । न च तदानीं प्राणा. भावात्तदभावः, नलिकादिना वायुसञ्चारेपि चैतन्यानुपलब्धः। किश्च देहस्य चेतनत्वे प्रतिदिनमन्यान्यभावे तस्य पूर्वदिनानुभूतस्योत्तरदिने स्मरणं न स्यात् अन्यदृष्टस्यान्येन स्मरणाभावात् अन्यथातिप्रसङ्गात् । एकचैतन्यसन्ताने वासनाफलयोरुपपत्तेने दोष इत्यप्यपरिष्कृताभिधानम्, आद्यसुतचैतन्यस्य चैतन्यानुपादानत्वात् । मातृचैतन्यं तदुपादानामितिचेत् ?, तर्हि मात्रनुभूतस्य भूणेन स्मरणानुषङ्गः, मातृचैतन्यसंसर्गस्य चैतन्योत्पादकत्वे तु तत्संलग्नघटादावपि तदनुत्पादे का प्रत्याशा ?; स्वेदजादिषु च मात्रभावेन दुरुपपादस्तदुत्पादः, तस्मात् यदेकं चतन्योपादानं स एवात्मा । अथ यथा वृश्चिकस्य गोमयवृश्चिकप्रभवत्वं तथा ज्ञानस्याभ्यासरसायनमातापितृशुक्रशोणितादिनानाहेतुप्रभवत्वमुपपद्यत एवेति चेद् न, रसायनादिस्थलेपि समानजातीयपूर्वाभ्याससम्भवात्, इतरथाहि समानेपि रसायनाधुपयोगे यमजयोः प्रज्ञामेधादिविशेषो दुरुपपादः, तस्मात् प्रज्ञादीनां जन्मादौ न विशेषः, शालूकगोमयजन्ययोस्तु शालूकयोमिथो विशेषदर्शनादेव विचित्रहेतुप्रभवत्वमिति न किञ्चिद्नुपपन्नम् । यत्तु शरीरवृद्ध्या चैतन्यद्धेः चैतन्यं शरीरोपादानमिति मतं, तदसारम्, महादेहस्यापि गजाऽजगरादेरल्पचेतनत्वात् । शरीरविकाराच्चैतन्यविकारोपलम्भात् तस्य तद्धमत्वमप्यनादरणीयम्, सात्त्विकानामन्यगतचित्तानां वा शरीरच्छेदपि चैतन्यविकारानुपलब्धेः,