________________
न्यायालङ्कारालङ्कृता ।
११५
तुरीयो यथा - रागादिमानयं वक्तृत्वात् चैत्रवत्, अत्र चैत्रे रागादि सन्देहास्पदीभूतम्, परचेतोविकाराणां परोक्षत्वात् तदव्यभिचारिलिङ्गानुपलब्धेश्च ।
पञ्चमो यथा - मरणधर्माऽयं रागादिमत्वाद् यज्ञदत्तवत्, अत्र साधनं दृष्टान्ते सन्दिग्धम् ।
षष्ठो यथा - नायं सर्वज्ञो रागादिमद्भावाद् मुनिविशेषवत्, अत्र मुनिविशेषे साधनस्य साध्यस्य च संशयः ।
सप्तमो यथा शब्दोऽनित्यः कृतकत्वाद् घटवत्, अस्तीह यद्यपि वास्तवो ऽन्वयस्तथापि वादिना वचनेन न प्रकटीकृतः, इत्य प्रदर्शितान्वयो दृष्टान्तः, यद्यपि नात्र वस्तुनिष्ठो कश्विदोषस्तथापि परार्थानुमाने वचनगुणदोषानुसारेण वक्तृगुणदोषौ परीक्ष्यौ भवत इति भवत्यस्य वाचनिकं दुष्टत्वम्, एवमुत्तरत्रापि ।
अष्टमो यथा - शब्दोऽनित्यः कृतकत्वाद् यदनित्यं तत्कृतकं घटवदिति । अत्र विपरीतोऽन्वयः प्रसिद्धानुवादेन हि अप्रसिद्धं विधीयते प्रसिद्धं चात्र कृतकत्वम्, हेतुभावेन निर्देशात्, अप्रसिद्धं तु अनित्यत्वं साध्यतयोपादानादिति प्रसिद्धस्य कृतकत्वस्यैवानुवाद सर्वनाम्ना यच्छब्देन निर्देशो युज्यते न पुनरप्रसिद्धस्यानित्यत्वस्य, अनित्यत्वस्यैव च विधिसर्वनाम्ना तच्छब्देन युक्तिमान् परामर्शो न तु कृतकत्वस्य तथा च यत्कृतकं तदनित्यमिति रचनौचितीमञ्चतीति ॥ ४८ ॥
Taणाष्टौ दृष्टान्ताऽऽभासानाह
चरमेऽसिद्धसाध्य-साधनोभय- सन्दिग्धसाध्य-साधनोभया-ऽप्रदर्शित-विपरीत
व्यतिरेकाः ॥ ४९ ॥
चरमे अन्त्या वैधर्म्येणाष्टौ दृष्टान्ताभासाः । असिद्ध