________________
३८४
द्वादशारनयचक्रे
नन्वेवमसत्त्वे प्रत्यक्षसिद्धं तृप्तिसुखादि विरुध्यते, ननु तत्सर्वसिद्धान्तसिद्धमित्ययुक्तेर्घटादीनां शून्यता।
तथाऽनुत्पादादपि, आयन्तयोर्जाताजातयोरनुत्पादादसत्, तत्र हि तौ विद्येयातां न वा? यदि नाम न ततोऽसत्त्वे तयोः सर्वभावानामनायन्तत्वानित्यस्थितिरेव स्यात् सा च प्रत्यक्षादिविरुद्धा उत्पत्तिविनाशदर्शनात्, स्थितवस्तुविपरीतत्वादवस्तु प्राप्नोति, अनुत्पन्नमेव सर्वं वस्त्वित्यभ्युपगमे सर्वसिद्धान्तव्याघातश्च। ___अथोच्येत साङ्यानामेव तावत् सत्कार्यवादित्वादव्याघात इति, नाव्याघातः, कथमसत्कार्यानभ्युपगमात्? प्रधानादीनां नित्यनिष्ठितत्वाभ्युपगमात्, अतस्तान्यारब्धान्येव, निष्ठितत्वात्, घटवत्, आरब्धत्वात् कृतकानि कृतकत्वात् पर्यवसानवन्त्यपि, यत्त्वेवं न भवति तत् खपुष्पवदसत् स्यात्, अथ त्वेवमपि नैवाभ्युपगम्यत आरम्भादि तहनिर्वृत्तमनिष्ठितमसत् स्यात्, आकाशवत्।
नन्वाकाशं शुद्धपदवाच्यत्वानिवृत्तं निष्ठितं सदेव प्रमाणज्ञानवदित्यत्रोच्यते कुतोऽस्य शुद्धपदता? आङीषदर्थ उपसर्गः काश दीप्ताविति धातुः आकाशत इत्याकाशम्, 'कुगतिप्रादयः" इति समासत्वात् मृगतृष्णिकावदाभासत इत्याकशमिति विज्ञानस्यैव तथातथोत्पादः । यदि च खादिशुद्धपदार्थप्रतिपत्तिं कुर्मस्ततो विज्ञानमात्रमेवेदं सर्वमिति नाभ्युपगच्छेम, अस्माकं हि वियद्गगनखाम्बरव्योममायाशून्यघटपटादिशब्दानामपि विज्ञानमात्रार्थतेति, अनेन सर्वे शब्दा विज्ञानाधाननिमित्तमात्रत्वादसदा एव। १. पाणिनि २-२-१८