________________
द्वादशist: नियमनियमनयः
३८३
एवास्तित्वस्य तस्मिंश्व तदभेदे तु सर्वेषामैक्यम्, भेदे वा घटबहुत्वमिति तदवस्थौ प्रसङ्गौ, तथापि च नास्तित्वमेव, अस्तित्वैकत्वशून्यत्वात् खपुष्पवत् । इतरेतरासत्त्वाभ्युपगमाच्च कुतोऽस्तित्वं तेषामिति ।
"
अथोच्येत भिन्नास्तित्व एव घटः, आत्मलाभे भिन्नप्रकारत्वात्, पटकटधीवत्, कटो हि नास्ति पटः पटश्च नास्ति कट इति कटपटधियौ भिन्नास्तित्वे दृष्टे तथा घटोsपि भिन्नप्रकारात्मलाभत्वात् पटादिभ्यो भिन्नास्तित्वः एतदपि न, उक्तसत्त्वतुल्यत्वात्, अस्य वा हेतोरभिन्नप्रकारत्वादिति प्रयोगेऽपि, येन प्रकारेणैकस्यात्मलाभस्तेन प्रकारेण सर्वभावानामप्यात्मलाभः, अस्तित्वेन भवनाविशेषात्, नानारूप्येऽस्तित्वं नास्तित्वमस्ति - नास्तित्वं वा स्यादित्युक्तम् । तस्मादभिन्नास्तित्वोऽसौ नञ्सहित एव हेतु:, घटवदिति दृष्टान्तः, तथैकत्वमपि ।
यदि तु ताभ्यामप्यन्यस्ततो घटस्य शून्यत्वम्, अस्तित्वैकत्वशून्यत्वात् खपुष्पवदिति प्रागुक्तो दोषः, अनन्यत्वे तु सर्वमेव घटः, अस्तित्वैकत्वानर्थान्तरत्वात् घटस्वतत्त्वानर्थान्तरघटवदिति, अथैवं नेष्यतेऽनर्थान्तरत्वञ्च न त्यज्यते ततो घटोsपि घटो मा भूद्भवनविशेषहेत्वभावात्, एवमनभ्युपगमे वा तुल्ययोरस्तित्वैकत्वयोः सतो र्घटो घट एव नियतरूपो न तु पटो घट इष्टः, अस्तित्वैकत्वाविशेषात्, एवमघट एव घटः स्यात्, तस्मादेव हेतोः, नन्वयमेव विपर्ययः • रूपं लोके रूपमेव न रस इति सिद्धमपि रूपं न स्याद्रसो sपि रसो मा भूद्रूपं स्यात्, बहुत्वप्रसङ्गो वोक्तवत्, तस्मान्न सन्ति
-
घटादयः ।