SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ द्वादशोऽरः नियमनियमनयः ३८१ ____ यत्रास्तित्वमिति पूर्ववत्साधनं कृत्वा एकत्वस्वतत्त्वञ्च सर्वत्रैवैकैकस्मिन्, सर्वस्य प्रत्येकमस्त्येकत्वादिति साधनद्वयेऽप्यस्तित्वैकत्वाभ्यामनन्ये सर्वभावाः पटादय इत्यनन्यत्वापादनं तुल्यम्, पूर्वत्र घटः सर्वं तदेकत्वं सतः घटाव्यतिरिक्तम्, परस्मिंस्तु घट एव सर्वं तदेकत्वं सर्वभावा इति विशेषोऽस्मात्तस्य। तथा यत्र घटत्वं तत्रास्तित्वैकत्वयोरपि निष्कलेनैव स्वतत्त्वेन भवितव्यम्, अनर्थान्तरत्वात् यत्र यस्यानन्तरत्वं तत्र तस्य निष्कलमेव स्वतत्त्वं भवति, यथा घट इव घटस्वतत्त्वस्येत्यत एकैको घटादिरवादिः सर्वो भेदेन सर्वात्मकः, तथा च प्रत्यक्षादिविरोधाः व्यक्ताव्यक्तात्मकभावानां द्रव्यगुणकर्मणामुत्पादस्थितिभङ्गानां साधनदूषणत दानाञ्चापायाः। एते चेन्नेष्यन्ते घटो नास्तीति प्रतिपत्तव्यम्, तथा च सर्वे भावाः, यत्र घटस्यावृत्तिस्तत्र सर्वभावानामवृत्तिरेव, अस्तित्वैकत्वयोः घटानान्तरत्वात्, अथाप्यर्थान्तरं ततो घटस्य सामान्यविशेषौ न स्त इति निःसामान्यत्वानिर्विशेषत्वाचासत्त्वमेव स्यात्। अथ भावाः परस्परविपरीतस्वभावा एव सत्यप्यस्तित्वैकत्वाभेदे, भेदार्थ प्रधानादिप्रवृत्तेः, तस्मान सर्वात्मदोषः, अत्र ब्रूमः घटः पटादस्त्यात्मकादेकात्मकादनन्यात्मकाच्च विपरीतः संवृत्तः ततश्च घटो घटात्मस्वरूपादपि विपरीतः प्राप्नोति, अस्तित्वैकत्वाभ्यां विपरीतत्वात्, घटविपरीतपटात्मवदिति पुनरपि नास्ति घटः, एवं . सर्वभावा अपि, सर्वगतत्वाव्याप्तेः ।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy