________________
३८०
द्वादशारनयचक्रे तत्प्रत्ययश्चाधत्ते तत्रेतीष्यते किन्तु अघटेन घटेतरेणेतरेतरयोगार्थं कल्पितेन नार्थः न च तत्प्रत्ययेन, स्वाधारवलादेव तत्सिद्धेः । अथ तथापि तत्र घटतां न करोति न एतत्प्रत्ययञ्चादधातीति मन्यसे ततः कथं त्वयोच्यते मन्यते च घट इति ततोऽन्यत्र वृत्तत्वात् ह्रस्वादीर्घत्वप्रत्ययवत् । अथोच्येताघटे घटतां नैव करोति तत्प्रत्ययमपि नादधातीति, तदपि न, घटाघटयोः परस्परापेक्षसिद्धेर्लोके दृष्टत्वात् क्यथा - सिद्धार्थकेत्यादिमेरुपर्यन्ताना मितरेतरापेक्षघटाघटानां दृष्टानामघटे वृत्तस्य घटत्वस्य घटाकरणघटप्रत्ययानाधानाभ्युपगमे ऽत्यन्तघटाभाव एव प्रसक्तः, नैव घटो भवेत् घटाकरणात्, हस्वत्ववत्, तत्प्रत्ययोऽपि न भवेत्, घटप्रत्ययानाधानात्, ह्रस्वप्रत्ययवदिति । एवं न घटत्वेऽपि, नाघटेऽघटत्वमित्यादि यावद्धटत्ववदनुसतव्यम्।
उभयोभयपक्षस्तु प्रत्येकमभिहितैर्दोषैर्न विमुच्यते, प्रत्येकमसिद्धयोरपेक्षायामप्यसिद्धेः, विप्रतिषेधाच्च, एवं तावन्न स्वतो न परतो नोभयतश्च घटाघटौ सिद्धयतः, सिद्धयत्यहेतुतश्चेत् खपुष्पायपि स्यात्, एवं सर्वार्थेष्वपीत्यसिद्धिरेवेति।
अथान्तरेणापीतरेतरयोगं स्वत एव सिद्धयति घट इति चेदत्र ब्रूमः, यद्यस्ति घटस्ततस्तस्य सत्त्वैकत्वघटत्वानामेकत्वान्यत्वयोः का युक्तिरिति विचारे तेषामेकत्वश्चेदिष्यते ततो यत्रैकत्वं तत्रास्तित्वमपि निष्कलं स्वेनैव तत्त्वेन भवितुमर्हति, अनर्थान्तरत्वात्, यत्र यस्यानर्थान्तरत्वं तत्र तस्य निष्कलमेव स्वतत्त्वं भवति, घट इव घटस्वतत्त्वस्य, ततश्चास्तित्वस्वतत्त्वं च सर्वभावा इति सर्वभावानां घटत्वप्रसङ्गः।