________________
३७०
द्वादशारनयचक्रे
इति नोच्यते भाविक्षणसन्धानश्चानन्तरशब्दलोपं कृत्वा उत्पाद्यते क्षणिक इति।
तस्योत्पन्नस्य व्यापारस्थितिरिक्तताज्ञापनार्थमेवमुच्यते यद्वत् क्षणिक आस्ते, क्षणिकं निकेतनमिति, एतदपि परिकल्पितमेव यन्मरणधर्मिणो द्रव्यार्थस्याक्षणिकस्यात्माख्यस्याभावविलक्षणस्य भावान्तरविलक्षणस्य विपर्ययसाधनाद्विरुद्धो हेतुः, स्थितमेव जायते जातश्च म्रियत इत्येवं लोके दृष्टत्वात्, यथा कृतकत्वानित्यत्वधर्मा स्थित एव घटादिः शब्दानित्यत्वप्रतिज्ञायां दृष्टान्त उच्यते नास्थितो नात्यन्ताभावो नापि ततोऽर्थान्तरभूतो वा कृतकत्वानित्यत्वधर्मा सम्बन्ध्याकाशादिः तथाऽवस्थितपुरुषमरणव्यपदेशो जन्मना तदविनाभावात् घटायनित्यधर्मिव्यपदेशवन्मरणधर्मिव्यपदेशः।
आयुष्कजननमरणयोर्द्वयोरपि आयुःकर्मणि स्थिते आत्मा जायते स एव म्रियते भुक्तायुःकर्मत्वात्, असति च क्रियानुपपत्तेः।
तथा चाभियुक्ताः पठन्ति, 'मृङ् प्राणत्यागे" इति । व्यवस्थितो जीवो प्राणानुपात्तान् त्यजति, उपादत्ते च तानेव तत्र तद्भूतत्वात् किं सन्धानेन।
यदप्युक्तं तस्यैव भावस्य व्ययत्वात् विनाशेनोत्पादस्य क्षणोऽस्यास्तीति क्षणिक इति व्यपदेशो न्यायादनपेत इति तदपि न किश्चित्, उत्पद्यमानविनश्यतोरपि तावत् भावयोस्त्वन्मतेऽभूतत्वात् सम्बन्धाभावः, किमङ्ग! पुनस्तत्प्रभावलभ्ययोरुत्पादविनाशयोः १. धातुपाठः १४२८