________________
एकादशोऽर: नियमोभयनयः
३६५ 'क्षणिकाः सर्वसंस्काराः अस्थितानां कुतः क्रिया।
भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते, ॥ इति। अथ वा नायमर्थो युक्तिसाध्यः प्रत्यक्षत्वात्, अन्यदेव हि रूपादि उत्पद्यमानं दृश्यते, वहतीवोदके, मन्दबुद्धेश्च सन्ताने स्रोतसि तदेवेति मिथ्याप्रत्यय उपजायते।
___ अथ सन्तानवत् सूक्ष्मोत्पादविनाशयोरप्यन्तरे वस्तु दृश्येत, सन्तानमपि वा न दृश्येत सूक्ष्मोत्पादविनाशवत्,, अत्रोच्यते न हि दृष्टेऽनुपपन्नं नाम, उक्तं हि बुद्धिमान्यादुदकस्रोतोवदवस्थानदर्शनमसतः सन्तानस्य, प्रत्यक्षं दृश्यमानत्वादेव वा न चोद्यम्, प्रत्यक्षस्य प्रमाणान्तरेणावाध्यत्वात्, तथा हि- 'ययेकस्मिन् क्षणे जातं .....' इति । तस्मात् स्थितमेतत्क्षणिकं रूपादि बाह्यं वस्त्विति।
___एताभ्यामेव महोत्पादभङ्गाभ्यां सन्तानजाभ्यां क्षणिकौ सूक्ष्मोत्पादभङ्गावनुमेयौ, तयथा - अन्ते क्षयदर्शनादादौ क्षयो ऽनुमीयते, प्रदीपशिखावत्, तथा घटादिरपि, तथा बुद्धिरपि क्षणिकेति; अयश्च नयः प्रतिक्षणमन्यो भवन्नेव न भवतीत्यभ्युपगच्छति, अतो नियमोभयं वाञ्छति, भावनिक्षेपविकल्पमनागमतो भावमुपयोगसद्भूतं बाह्यं रूपादि प्रतिपद्यते, उपयोगैवं भूतस्य नयस्यैकदेशत्वात्, पर्यायमूलनयभेदश्चैषः, परि समन्तादयते इति पर्यायाक्षरार्थत्वात्, स एवार्थोऽस्यास्तीति पर्यायार्थिकः, इन्द्रोऽनिन्द्रश्चन्द्रः, पुरन्दरादित्वस्य त्वनवकाश एव क्षणिकत्वात्,' तद्भावस्यैव तद्भूतत्वादिति।