________________
द्वादशारनयचक्रे
स्मृत्यानर्थक्यमितितदयुक्तमुक्तम्, अथान्यथा मन्येधास्तन्न तस्य प्रकारस्यानुक्तत्वात्, स्वस्वाम्यादिभावेन सम्बन्धादिति वचनात् इति ।
३०४
अत्र ब्रूमः, न किञ्चिदत्र नोक्तम्, उक्तभेदात् सम्बन्धादनुमानम्, तच्च तत्सम्बन्धिप्रत्यक्षात् 'एकस्मात् प्रत्यक्षात्' इति वचनात् तेनैव प्रकारान्तरेणानुमानावतरणात्, द्वयोस्तु सम्बन्धिनोर्विशिष्टयोरुपलब्धसम्बन्ध्यन्यतरप्रत्यक्षोत्तरकालं यत्रायं प्रत्यक्षोऽश्वत्रो वा तत्रेतरोऽपीति या उपलब्धसहचरसम्बन्धानुसारिणी स्मृतिः किमित्यनर्थिका स्यात् ? अग्यपेक्षधूमवत् एवञ्च कृत्वोक्तं 'कश्चिदर्थः कस्यचिदिन्द्रियस्य प्रत्यक्षः . अविशिष्टस्या
ग्रस्तित्वं प्रतिपद्यते ' इति ।
यत्तु तेन प्रत्युच्यते परमतमाशङ्कय लिङ्गग्रहे तुल्यमिति चेदिति तत्तथैव लिङ्गेऽपि, लिङ्गलिङ्गिनोरन्योऽन्यापेक्षत्वात्, अथ तत्र नेष्यते स्वस्वाम्यादिष्वपि मा भूदिति, अत्राहमप्येवं ब्रुवे लिङ्गिसम्बन्धित्वात् लिङ्गस्य उत्तरकालं स्मृतेरानर्थक्यं लिङ्गग्रहे हि लिङ्गी गृहीत इति, अथान्यथा ग्रहणं चेत्तनोक्तमिति लिङ्गेऽपि तथा, यत्तूच्यते मा संस्था लिङ्गग्रहणतुल्यमिति लिङ्गित्वेऽस्ति विशेषः, न हि लिङ्ग सम्बन्धित्वमात्रेण गृह्यते, किं तर्हि ? अनुमेयदेशस्थं धूमादित्वेन पूर्वं गृह्यते, पश्चात्तस्याग्न्यादिभिरविनाभावित्वं स्मर्यते इति सर्वत्र व्यापीति, तदिहापि तुल्यम्, अनुमेयस्थं अश्वत्वेन पूर्व गृह्यते पश्चात्तस्य चैत्राविनाभावित्वं स्मर्यते न तद्देशसम्बन्धीति देशादिस्थाऽनग्निधूमवत् ।