________________
अष्टमोऽरः उभयनियमनयः
३०३
लिङ्गिन्यपि तथा तत्रेत्यभूतान्वयसाधनार्थातथार्थत्वात्, अतस्तद्भावदर्शनादेव तु साध्यसाधनधर्मयोस्तथाभूतान्वयदर्शनहेतोः लिङ्गिनि परस्परप्रत्ययाधाराधेयप्रधानोपसर्जनभावेनाविनाभावात् संयोगिवद्वृत्तिर्न तु कुण्डबदरयोराधाराधेययोरिव, तुल्यकक्षत्वादुभयोः । ___एवञ्च सपक्षे साध्यसाधनधर्मयोः सहभावदर्शनात् समान्वयवृत्त्या तथाप्रत्यक्षसम्बन्धित्वविवक्षया साधर्म्यदृष्टान्त उच्यते तथा प्रसिद्धस्य धर्मस्य साधनत्वादप्रसिद्धस्य साध्यत्वात् कुतो लिङ्गलिङ्गिव्यतिकरदोषाशङ्का? धर्मिण एवैकस्य लिङ्गत्वाल्लिङ्गित्वाच नाग्निर्लिङ्गी न धूमो लिङ्गम् प्रत्यक्षतरसम्बन्धित्वविवक्षितत्वान्न सङ्कीर्येयातां लिङ्गलिङ्गिनौ।
यत्पुनरिदं लिङ्गलिङ्गयेकरूपापादनं सम्बन्धिना द्वितीयसम्बन्धिरूपेण भवितव्यमिति, एषोऽन्यायः, प्रत्यक्षाप्रत्यक्षत्वविशेषदर्शनात्, न हि चैत्राश्वादि सम्बन्धिनां प्रत्यक्षाप्रत्यक्षाणां नियमोऽस्त्येकः प्रत्यक्ष इति द्वितीयेनापि प्रत्यक्षेण भवितव्यश्चेति, तथा संयोगित्वसाध्यसाधकत्व................ यथैकः संयोगी तथा द्वितीय इति, अत एव चैवं वक्तुमयुक्तं यथा त्वया विश्रब्धमुच्यते - यथा हि सत्यपि द्विगतत्व इत्यादि यावत्तद्वदिह न भवतीति तन घटत इति ब्रूमः । ननु तद्वदेवेह संयोगिनोरपि लिङ्ग- लिङ्गिनोः, संयोगित्वात्, स्थाण्वादिसंयोगिवत्, यथा हि स्थाणु- श्येनयोः संयोगः सकर्माकर्मकत्वाभ्यामतुल्यः तथा मल्लद्वयङ्गुलाकाशादिसंयोगसंयोगिनाम्।
यत्तूक्तं स्वत्वादिप्रत्यक्षत्वात् द्वितीयस्य स्वस्य स्वामिनो वा तेन सहैवावगतत्वात् अन्यापेक्षत्वाच्च सम्बन्धस्य शेषसिद्धयर्थं