________________
अष्टमोऽर: उभयनियमनयः
२४९ तटीवत्, एवं लिङ्गाभाव एव तटत्वादीनां, प्रसवादि धर्माभावे गोचरविशेषाभावात्।
ततधासत्त्वमप्येषां मूलोद्वर्त्तनेनाक्रियाव्ययत्वे सत्यलिङ्गत्वात् खपुष्पवत्, अथोच्येत नन्वेवं प्रपञ्चेन संस्त्यानात्मकत्वादिना त्रिलिङ्गत्वं व्यवस्थापितमेवेत्येतच्च न, लिङ्गव्यवस्थापनहेत्वभावात्, एकार्थे सन्निधिभावे वा स पुमानेव न स्यात् स्त्रीत्वाद्देवदत्तादिवत्, न स्त्री पुंस्त्वात्, ततोऽस्त्रीपुंसौ नपुंसकत्वात्, पर्वतनदीभवनविषयत्वात्त्रिलिङ्गत्वं विशिष्टविषयमित्येतच्चन, पुमादिभिन्नबाहायेक -लिङ्गत्वात्, अर्धर्चादिषु च विशेषादर्शनादपरिहारात्।
नन्वेकस्य दृष्टं त्रिलिङ्गत्वं भूतिर्भवनं भाव इतीति चेन, यदि वयं दृष्टत्वादेव त्वादृशा इव प्रतिपद्यामहे तदा किं विवादेन, तदेव दुर्दृष्टम्, अपि चेदं साध्यं, यथार्थाभिधानशब्दनयमतेन भिन्नत्वात्, अपि च भावो वेत्येतदपि साध्यम्, प्रकृत्यर्थस्य न्यग्भूतत्वात्, कर्नर्थ -स्यैव सद्भावात्, अपि चैकस्य त्रैलिङ्गयायुक्तिविचारे नानालिङ्गनानाशब्दोपन्यासोऽतिविस्पर्धते, एकभवनासत्त्वादथैकत्वमपि नैव, सामान्यभवनस्यैकस्य न्यग्भूतत्वात् विशेषभवनस्य भूत्यादिविशिष्टैकरूपत्वात् तस्माददृष्टान्तः।
यदप्युक्तं नक्षत्रतारातिदेशविषयो नक्षत्रं भवति पुष्योऽयं देवदत्त इति, वृक्षोऽर्थो भवतीति यथा वृक्षस्यार्थेनातिदेशस्तथा नक्षत्रादिना देवदत्तस्येति, अत्र देवदत्तस्यैवं नक्षत्रादिनाऽतिदेशो न भवति नक्षत्रादीनामतद्विषयत्वात्, अर्थेन च सता वृक्षोऽतिदिश्यते प्रत्यक्षः सन् परोक्षेण धर्मेण असता वा, वृक्षस्यार्थविषयत्वात्।