________________
प्रथमः विधिभङ्गारः
११
प्रागुक्तविधिना सर्वसामानाधिकरण्याच्च विशेषस्वतत्त्वस्यैकविकारेऽपि सर्वस्याशेषस्यापि, अन्यथा त्वविकारो जायेत तन्मात्रेऽन्यत्वाद्गन्धोनाधिकभाववत्, तस्मानास्त्येवानवस्थानानिराश्रयः खपुष्पवद्विशेषः।
अथ तु तद्बुद्ध्यासन्नमेव ग्रहीष्यते सामान्यविशेषयोरित्येवं तर्हि द्रव्यगुणकर्मणां न सामान्यं नापि विशेषः तेषां परस्पराऽऽ सत्त्यभावात्, तया द्रव्यस्य गुणस्य कर्मणो वाऽऽसत्ति-गुह्येत, तत्रैव च सामान्यविशेषौ स्याताम् न गुणकर्मणोः तद्बुद्ध्यासन्नता हि द्रव्यस्य द्रव्यस्य, न द्रव्यस्य गुणस्य च, न द्रव्यस्य कर्मणाञ्च, न गुणस्य कर्मणश्चेति सामान्यभावो विशेषाभावश्च ।
यथा द्रव्ययोः प्रत्यासत्तिर्द्रव्यत्वाभिसम्बन्धात्तथा सत्त्वाभिसम्बन्धाद्र्व्यगुणकर्मणां भविष्यति यथोक्तं 'सदिति यतो द्रव्यगुणकर्मसु द्रव्यगुणकर्मभ्योऽर्थान्तरं सा सत्तेति, अत्र ब्रूमः, द्रव्ययोरपि नोपपद्यते, तथाऽऽसत्तिः सिकतानां वज्रस्य च न भूम्यम्भसोः, तेनैव हेतुक्रमेण तथाऽऽसत्तिः पिण्डघटयोर्न मृत्सिकतानामेवं परतः परतो यावत्तुल्यजातिगुणक्रिययोरण्वोरेव स्याताम्, न तुं तयोस्प्यन्यत्वप्रत्ययप्रभावोल्लिङ्गितान्त्यविशेषयोस्तत्समवायेनापक्षिप्तप्रत्यासत्त्योस्तस्मात् सामान्याभावाद्विशेषाभावः सर्वत्रैवोभयाभावः।
सा द्विधा प्रत्यासत्तिः, अर्थसम्बन्धादनर्थसम्बन्धाच्च, तत्रानर्थ लक्षणा सद्व्यपृथिवीमृद्धटादितत्त्वानुवृत्तिबुद्धिग्रहणा यथोक्ता,