________________
प्रथम : विधिभङ्गारः
समानजातित्वादपेक्ष्यते घटेन पटः, सा पार्थिवत्वम्, घटात्मत्वाच्च विशेषः पटादेरिति चेद्विजातीयात्तर्हि विशेषाभाव उदकादेः, द्रव्यापेक्षा तत्रापीति चेद्विजातीयाभ्यां गुणकर्मभ्यामविशेषः, तत्रापि सत्तापेक्षेति चेद्विजातीयात्तर्ह्यत्यन्तासतः सतः, जातेरिवाजातेः ।
९
कार्याद्वा कथमिति भावाभावयोरविशेषः, एवं सत्त्वमेवा - भावस्य भाववदसत्त्वमेव भावस्याभाववत् तथापि चोभयाभावः ।
पार्थिवत्वादितुल्यत्वाच्च तद्वत्तदात्मत्वम्, पार्थिवत्वात्मतत्तत्त्वेनापेक्ष्यत्वादिति विवेकयत्नार्थहानिस्ततश्चा
घटत्ववद्वा, विशेषः ।
अयं विशेष एव न भवत्यापेक्षिकत्वात् सामान्यविशेषाणां द्रव्यत्वादीनामौपचारिकत्वाच्च मुख्योऽन्त्य एव विशेष इत्यत्रोच्यते, अन्त्येऽपि तत्तद्द्रव्यादिप्रभेदगतिग्राह्यत्वात् ।
द्रव्यादिव्यतिरेकेण प्रत्यक्षानुमानाभ्यामग्राह्यत्वात् तत्सरूपेणैव ग्राह्यत्वाच्च, अन्यथा विषयनिरपेक्षत्वाद्योगिनाम - ज्ञानप्रसङ्गो मिथ्याज्ञानप्रसङ्गो वेति स्थितं न स्वविषयो विशेषः ।
परविषयतायान्तु विशेषस्यानवस्थानादविशेषः । यथा च प्राक् असमानावस्थानात् असामान्यमिति प्रक्रम्य सामान्याभावः प्रतिपादितस्तथेहापि तद्विपर्ययेण तदेव प्रकरणं योज्यम् ।