________________
द्वादशारनयचक्रे
लोकनये विनोपचारेण लभ्यौ, कथमिति चेत् ? अनुपचरितकि - चिद्भूताकारात्तु किञ्चिदुक्तिप्रत्ययौ स्याताम्, आकारस्यासम्पूर्णस्य दृष्टत्वादेव, भवत्पक्षे पुनर्नहि तत्त्वं किञ्चिन्निलीनं किञ्चिच्चानिलीनमित्यस्तीति ।
८
तथा विशेषोऽपि तत्र यदि स्वविषयो विशेषविरोधः, यदि विशेषस्तत आत्मा न भवत्यन्यत्वाद्विशेषस्य, यदि घटादावात्मनि विशेषो वर्त्तते स्वविषयः तत आत्मनोऽन्यत्वाद्विशेषस्य रूपादेर्देशतो विशिष्यमाणस्य गुणतः कालतो वा प्रतिक्षणान्यान्योत्पत्ति विनंष्टृषु पुरुषादिषु कस्तदात्मा, अन्यथा घटादौ सामान्यापत्तेः तत्र चोक्ता दोषाः ।
अथाऽऽत्मा स विशेषस्ततो विशेषो न भवत्येकत्वादात्मनः ।
नैकत्वान्यत्वविरोधदोषौ, आत्मैव विशेष इत्यनपादानादिप्रतिज्ञानादित्यत्रोच्यते प्रथमविकल्प आयातो विशेषस्य विरोध इत्यात्मनोऽन्यथाभवनादनात्मत्वमिति
घटरूपादिपूर्वोत्तराणाम
भावस्तथा चोभयाभावः ।
एतदनिष्टतायान्तु परापेक्षपक्षापत्तिर्वा, तथापि द्रव्यभेदः प्रसक्तः परापेक्षत्वाद्विशेषस्य ।
पटाद्यवृत्त्यात्मक एव घटः पटाद्यपेक्षत इति चेत् का हि वृत्तिसहायकादृते सिद्धवृत्तेः पटाद्यपेक्षा, प्रयोजनाभावात्, तथाऽऽत्मैवास्य भिद्येत, सहायापेक्षवृत्तित्वात्, शिबिकोद्वाहाऽऽत्मवृत्तिवत् ।